________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥ १४७॥
इति ध्यायन् द्विजः प्राह, सुतारामग्रतो भव । वलितायां सुतारायां, रोहिताश्वोऽश्वलेऽलगत् ॥ २२४ ॥ रुदती तं सुताisse तिष्ठ त्वं पितुरन्तिके । आनेतु मोदकं तुभ्यं, यान्त्यस्मि वत्स ! तिष्ठ तत् ॥ २२५ ॥ अमुञ्चत्यञ्चले तस्मिन्, मुहुर्मात्राऽपि बोधिते । भृतिके किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ॥ २२६ ॥ सुतारां सभयं यान्तीं, यावन्मुञ्चति नार्मकः । तावद्विजेन भूमौ स पादेनाहत्य पातितः ॥ २२७ ॥ राजा सास्र ं ततो दध्यौ, धिगापदमिमां मम । इन्द्रस्याप्यङ्कलाल्योऽयं, पदा विप्रेण हन्यते ॥ २२८ ॥ पतितं विपदि पुमांसं परितो वृण्वन्ति परिभवसहस्राः । श्वभिरभिदष्टो निहतो व्याधैः श्रितवागुरः क्रोडः ॥ २२६ ॥ ततः प्रोचे द्विजं राजा, न तिष्ठेन्मातरं विना । शिशुः किमपि ते कर्म, कर्त्ता क्रीणीह्यमु ं ततः ॥ २३० ॥ मुधिकयापि गृह्णामि, नैनमेतद्विजो ब्रुवन् । राज्ञोक्तः स्वर्णसहस्र ं दत्त्वाथादाय तौ ययौ ॥ २३१ ॥ राजा दध्यौ न लप्स्येsहं, पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै दत्त्वा स्यामकुतोभयः ॥ २३२ ॥ ततः कुलपतिः कुर्वन्नाज्ञामित्र समाययौ । कोपात्पराङ्मुखीभूय, प्रोचे द्राग् देहि हेम नः ॥ २३३ ॥ कियदपि गृहाणेदमित्युक्ते भूभुजा मुनिः । प्रोचे किमवधौ पूर्ण, पूर्ण स्वर्ण ददासि न १ ॥ २३४ ॥ राजाह धिगधमर्णमुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि तं प्रीणयति चाटुभिः ॥ २३५ ॥ क्रोधात्कुलपतिः प्राह ग्रहीष्येऽल्पं न काश्चनम् । विक्रीय दयितापुत्रौ यत्प्राप्तं तत्समर्पये ॥ २३६ ॥ वदत्येतन्नृपेऽङ्गारमुखः प्राहार्थयस्त्र भोः ! | चन्द्रशेखरमत्रत्यं किं विक्रीतौ प्रियासुतौ १ ॥ २३७ ॥
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता
सत्यहरि
श्चन्द्रकथा
॥१४७॥