SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रथम: परिच्छेदः चन्द्रप्रमस्वामि चरित्रम् ॥१४६॥ . दृष्ट्वा च भूपमापादमस्तकं चक्रिलक्षणम् । ऊचे कस्त्वं १ कथं देह, श्रीगेहं भृतकीयसि ? ॥ २१२ ॥ युग्मम् ॥ शुचात्तमौनं भूपालमालप्यागच्छदग्रतः। दृष्टा सुतारां सास्रोऽभूनिनिन्द दैवमुच्चकैः ॥ २१३॥ एना स्त्रियं ननु विधाय रिपो ! विधातस्त्वं मृढ ! कि नयसि दास्यविडम्बना हा !। दृष्ट्वापि यद्वपुषि रूपगुणत्रपादीनत्यद्भूतानिजगतेस्त्रपते रतिस्तैः ॥ २१४ ॥ सुतारायाः पुरः पुण्यं, रोहिताश्व सुलक्षणम् । दर्भाङ्कशिरसं प्रेक्ष्य, धिक् शास्त्रमित्युवाच सः ॥ २१५ ॥ शास्त्र सुलक्षणान्याह, यानि कानिचिदादरात् । तान्याधिक्यादमीषां यत्सत्यावस्था च कीदृशी?॥२१६ ॥ सानुभूतं नृपः प्राह, मास्मैवं हि द्विज ब्रवीः । शास्त्रं हि न मृषा भाषि, किन्तु मे कमवैभवम् ॥ २१७॥ जन्मन्येव कृतः पूर्वे, ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ॥ २१८ ॥ तदशादीदृशी चेन्नोऽवस्थैषा तच्छुचाऽत्र किम् ? । सर्व विषहमाणो हि, कर्मभिमुच्यते जनः ॥ २१ ॥ किमस्या मूल्यमित्युक्ते, ब्राह्मणेन मुहुमुहुः १ । कथञ्चिद् रुद्धबाष्पोऽथ, राजाऽऽख्यदुचितं हि यत् ॥ २२० ॥ ततः स्वर्णसहस्राणि, पञ्चास्या मूल्यमस्तु भोः । वदतीति द्विजे राजा, लजयाऽधोमुखोऽभवत् ॥ २२१ ॥ अनिषिद्धमनुमतमिति तस्मिस्ततोऽश्चले । स्वर्ण बध्नाति राजाह, मोक्षोऽस्या द्विगुणेन भोः ! ॥ २२२ ॥ . धिग् जन्म धिक् प्रचुरजीवितमद्भुतश्रि, धिग् घिग् महत्त्वपदमन्यवशस्य पुंसः ।। प्राप्यापि यो मनुजतां स्फुटशमहेतोः, स्वेच्छारसाद्विघटयत्यपि जीवितं स्वम् ॥ २२३ ॥ अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा ॥१४६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy