SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ १४५॥ किश्चिद्विमृश्य च क्षिप्रं तृणान्यानीय भूपतिः । न्यस्य मूर्ध्नि सुतारोक्तः, प्राहैषा भृतक स्थितिः ॥ २०९ ॥ रोहिताश्वं धुनानं स्वं शिरः प्राह ततो नृपः । विधेहि मद्वचो वत्स !, तुभ्यं दास्यामि हस्तिनम् ॥ २०२ ॥ दध्यौ सुतारा घिग् दैवं भवे भवशतान्यथ । दत्ते यन्नः क्व सा लक्ष्मीः ?, क्वैषा विक्रयवाच्यता १ ॥ २०३ ॥ राजाऽप्यचिन्तयद्दत्ता, न तथा कीर्त्तये मही । यथा ह्यकीर्त्तये पत्नीपुत्रयोरिह विक्रयः ॥ २०४ ॥ विसृजामि सुतारां तत्सपुत्रां पितृवेश्मनि । यद्भाव्यं तदहं सोढा, ध्यात्वेत्यूचे स तां नृपः ॥ २०५ ॥ देवि ! याहि पितृकुलं, पुत्रमादाय सम्प्रति । यथा तथाप्यहं स्वर्ण, दास्यामि मुनये खलु ॥ २०६ ॥ साक्षेपं प्राह देवी तु, किं नु स्यात् प्रलयेऽप्यदः ? । विमुच्य त्वामहं यान्ती, सत्यं जाताऽस्मि दुर्जना ॥ २०७ ॥ यतःसम्पदि कस्कः श्रयति न विपदि तु मुञ्चन्ति गतघृणाः पुरुषम् । स्वं दर्शयत्यगस्त्यः पश्य भुवे फलितसस्यायै ॥ २०८ ॥ किश्च - वरमरिवरिवस्या पावके पावके वा, पतनमतनुभिक्षाभाजनं भोजनं वा । सपदि विपदि दैवान्मज्जने सज्जने धीः, पुनरभिगमसज्जाऽतीव लज्जाकरो मे ॥ २०९ ॥ अपि चविना कान्तं स कोप्यस्ति, यः स्त्रीणां प्रीणयेन्मनः । सुखालापेष्वप्यलिषु, श्रीः काब्जिन्या विना रविम् ? ॥ २१० ॥ ततश्च ब्राह्मणः कोऽपि, वीक्ष्यमाण इतस्ततः । भृतिकां काञ्चिदाय सीदुपभूपं स उन्मुखः ॥ २११ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता सत्यहरि श्चन्द्रकथा ॥ १४५ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy