________________
चन्द्रप्रभस्वामि
चरित्रम् 1128811
सावष्टम्भं नृपः प्राह का लज्जा सत्त्वशालिनाम् ? । पूर्णांकत्तु निजां सन्धामापदो यदि तन्महः ॥ १६९ ॥ सुताराह भवेद्देवात् सा काप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तुत्सवः ॥ १६२ ॥
,
?
राजा प्रोवाच देवि ! त्वं न विचार्य प्रभाषसे । लक्ष्म्या बलेन वा हीनः, स्यां चेत्ततः पराभवः ॥ १६३ ॥ इदं पुरा कृतं कर्म प्रभवत्नवार्य्यते । तत्प्रभावादशाऽस्माकं यच्चैषा तदुद्विषां किमु १ ॥ १६४ ॥ यतः— किं लब्धेन यतो जिहीर्षति ? किमु त्यक्तेन यद्दित्सते ? - किं तुष्टेन यतो रुरोषयिषति ! स्नेहानुकूलेन किम् ? |
यद्दिद्वेषयिषत्यतस्तनुभृतामिष्टं बलादन्यथा, कुर्वाणं जयतीह कर्म न परस्तकेन कीदृग्भवेत् ? ॥ १९५ ॥
ततः प्रतिपुरीं राजा, प्रतस्थे प्रियया सह । तामाह स्यात्कुतः स्वर्ण, यदासन्नोऽवधिः ॥ १६६ ॥
विक्रयार्यपुत्राऽस्मै, तद्यच्छेति तयोदिते । राजाह विक्रयश्चेत्स्यात्, तत्सर्वेषां न कस्यचित् ॥ १६७ ॥ रोहिताश्वोऽब्रवीत्तात ! मा विक्रेष्टास्तु मां स्फुटम् । मातर्वास्य तातं मां, विक्रीणानं पुरे धनैः ॥ १६८ ॥ रुदत्याह सुतारा त्वं, चक्रवर्त्ती भविष्यसि १ । मा रोदीस्तिष्ठ वत्स ! त्वां विक्रेष्यते न कश्चन ।। १६६ ।। रोहिताश्वस्य वाचाऽथ, मनोमर्माविधा रुदन् । पुरीभृतकत्रीयां स, तस्थौ श्रेण्या नृपस्ततः ॥ २०० ॥
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तर्गता
सत्यहरि
श्चन्द्रकथा
॥१४४॥