________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥१४३॥
न कोऽपि यावदायाति, विलमो नृपतिस्ततः । किमिदमिति देव्योक्तः, पूर्वोऽभ्यासोऽब्रवीदिति ॥ १७८॥ रोहिताश्वः पुनःप्रोचे, मातबु भुक्षितोऽस्म्यहम् । रुदती तारतारं सा, सुतारा पुत्रमब्रवीत् ॥ १७६ ॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्मणः । भरतान्वयजातस्यावस्था केयं तवागता?॥ १८०॥ अथ दध्यौ नृपः कीदृग् , राज्यस्य तादृशः फलम् ? । रुदतो यत्तनूजस्य, प्रातरांशेऽप्यशक्तता ॥ १८१॥ तावद्विनोदयाम्येनं, कौतुकप्रेक्षणादिभिः । पश्येतः पुत्र ! गङ्गायां, मिथः क्रीडन्ति पक्षिणः ॥१८॥ विप्रतारयति क्षमापे, रोहिताश्वं कुतूहले । आगादकस्मात्काप्येका, वृद्धा पाथेयमस्तका ॥ १८३ ॥ पृच्छन्तं नगरीमार्ग, भूपं साहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी ॥१८४ ।। कथा नः श्रूयमाणापि, कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ, राज्ञेत्युक्ता चचाल सा ॥ १८५॥ मोदकं देहि मे मातः!, सुतारामिति भाषिणि । रोहिताश्वे ततो वृद्धा, निवृत्य तमढौकयत् ॥ १८६॥ स्वयमलम्पटत्वेन, सात्त्विकात्मजभावतः । बुभुक्षितोऽपि बालोऽपि, रोहिताश्वोऽग्रहीन तम् ॥ १८७॥ नानुकम्पप्रदानं ते, गृहीमो वयमध्वगे! । प्रत्याख्यातेति राज्ञा सा, ययौ क्वापि क्षणादपि ॥ १८८॥ देवि ! चेद्गतखेदासि, तदोत्तिष्ठ पुरी प्रति । याम इत्थं नपेणोक्ते, सुताराह सगद्गदम् ॥१६॥ निजराज्यपरिभ्र शलज्जासजमनाः कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र, वैरिपुर्या स्थितद्विषि १ ॥ १९ ॥
अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा
|॥१४३॥