SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेदः ॥१४॥ अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा ततोऽपवार्य ते प्रोचुस्तापसा मुदिता मिथः । अहो ! सत्त्वमहो ! सत्यमहो ! सात्विकसूश्च भूः ॥ १५१ ॥ विमृश्याह नृपो देवी, गच्छान्तःपुरमात्मनः। रोहिताश्वशिशुयस्मान्न सोढा खेदमध्वनः ॥१५२ ॥ . सावष्टम्भं सुताराह, यद्भाव्यं तद्भवत्विह । आगमिष्याम्यहं साध, त्वया छायेव निश्चितम् ॥ १५३ ॥ पतिव्रते! चलितासि क्वेत्युक्ते मुनिनाऽह सा । प्रवासे डायपुत्रेण, येन पत्यनुगाः स्त्रियः ।। १५४ ॥ ममायत्ता हरिश्चन्द्रस्त्वां, नेष्यतीदमद्भुतम् । इत्युक्ते मुनिना प्राह, वसुभूतिः क्रुधा ज्वलन् ॥ १५५ ॥ अये ! तापस ! नासि त्वं, विज्ञो लोकस्थितेः खलु । विद्धीदानी स्त्रियो भन देवता नापरात्मिकाः ॥ १५६ ॥ यत्प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् । इत्युक्ते तापसेनाह, नेति राजाऽपि सर्वदः ॥ १५७ ॥ त्वं विस्रक्ष्यसि चेद्देवी, तदाऽऽयातु मया सह । देव्याह विसृज.त्वं मां, मुने! स प्राह याहि तत् ॥ १५८ ॥ किन्तु मुक्त्वाऽऽभरणानि, यातेति मुनिनोदिते । राजाऽमुश्चत् सुताराह, किश्चिन्मेऽस्तु कुलोचितम् ॥ १५६ ।। मुनिराह हरिश्चन्द्रे, सत्यन्यत् किं कुलोचितम् ? । इति वाचि मुनौ सास्रा, सुताराप्यमुचत्ततः ॥ १६० ॥ मन्त्री प्राह मुनि कोपादरे रे !!! ब्रह्मराक्षस ! । नृपो विज्ञो ददत्त क्षमा, किमु गृह्णन्नितो भवान् ? ॥१६१ ॥ क्र धा प्रोचे मुनि यं, कृत्येषु विदुरो नृपः । अहं विज्ञो न चाऽस्म्येष, विज्ञस्त्वं योऽन्तरायकृत् ॥१६२ ।। कोपात्स निर्देशन्नोष्ठी, गृहीत्वोज्झत् पयो भुवि । आह चास्ति तपश्चेन्मे, तदा त्वं द्राक् शुको भव ।। १६३ ॥ ततश्च सचिवो भृत्वा, शुकोऽगान्नभसा क्वचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥ १६४ ॥ ॥१४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy