SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१३६॥ सरोषमङ्गारमुखो, भूपं प्राह नृपाधम ! । विप्लावयसि किं नस्त्वं, मृषाभाषामहोदधे ! १ ॥ १२४ ॥ आहाङ्गारमुखं मन्त्री, विरोधस्ते मिथः कथम् १ | क्वेदृग् तपो १ रुषः क्वेमास्तन्मा ब्रह्म कलङ्कय ? ॥ १२५ ॥ प्राहाङ्गारमुखः कोपादस्थापितमहत्तर !। कोऽसि त्वं रे ! मम ब्रह्मचिन्तायां सचिवाधम ! १ ॥ १२६ ॥ अरे राजन् ! त्वमेनं किमन्तरालापिनं बटुम् । न निवारयसि १ किं नोपनयसि च काञ्चनम् १ ॥ १२७ ॥ कर्णेऽथ कथिते राज्ञा, ह्यानीयाभरणान्यपि । कुन्तलेनापितान्येष, राज्ञोऽमूनीत्यपाकरोत् ॥ १२८ ॥ कुन्तलो वसुभूतिवाहतुः कुलपते ! नृपः । यावद्ददाति ते स्वणं, तावदावां गृहाण भोः ! ॥ १२६ ॥ मुनिराह त्वया जूर्ण मार्जारेण करोमि किम् ? । अल्पेन कुन्तलेनापि कः स्वर्ण स्वमुपेक्षते १ ॥ १३० ॥ आदिशत् कुन्तलं राजा, देवीभूषणमानय । स ययाचे ततो देवीं देव्याहैष्याम्यहं स्वयम् ॥ १३१ ॥ तेनादिश्यमानमार्गा, रोहिताश्वेन संयुता । आययौ सदसि क्षिप्रं सुतारा सावगुण्ठना ॥ १३२ ॥ प्रणम्यैषा मुनिं प्राह गृहाणाभरणं मम । मुनिराह पितुर्भत्तु वैतानि १ साऽब्रवीत्ततः ॥ १३३ ॥ आर्यपुत्रेण मे योग्यं, नेपथ्यमिदमार्प्यत । सुनिराह ततः केयं, दक्षता ते पतिव्रते ! १ ॥ १३४ ॥ ऊचेऽङ्गारमुखः किं न जानासि त्वमियं किल । कैतवाम्बुधिचन्द्रस्य, हरिश्चन्द्रस्य गेहिनी १ ॥ १३५ ॥ या प्रदते त्वदीयानि तवैवेत्युदितेऽमुना । आबद्धभ्रकुटीभङ्गः, कुन्तलस्तु ततोऽवदत् ॥ १३६ ॥ अरे तापस! नो वेत्सि, देवीं सतीत्वशालिनीम् । तदेष त्वं न भवसीत्युक्त्वाथ सोऽवदन्नृपम् ॥ १३७ ॥ प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता सत्यहरि श्चन्द्रकथा ॥ १३६ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy