________________
चन्द्रप्रभस्वामि चरित्रम्
॥ १३५ ॥
1
राजा सविनयं प्राह, मुने ! ब्रूहि करोमि किम् १ । विशाम्यनिं १ त्यजामि क्ष्मां १, चरामि व्रतमेव वा १ ॥ ६८ ॥ सोपं स मुनिः प्रोचेऽद्यापि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्र णघातपातकपङ्किलाम् ॥ ६६ ॥ ततोऽङ्गारमुखोऽवादीत्प्रसादं कुरु मा रुषः । तपस्तेजोनिधे ! नायं, राजापमानमर्हति ॥ ७० ॥ किन्तु दुष्कर्मणोऽमुष्य, पवित्रीकारकारणम् । शास्त्रानुपाति यत् किञ्चित्तदेवाशु समादिश ९ ॥ ७१ ॥ मुनिरूचेऽङ्गारमुख !, शुद्धिस्तदास्य जायते । सर्वस्वं यद्यसौ दत्ते, दानं ह्यघनिवृत्तये ॥ ७२ ॥ सोच्छ्वासं नृपतिः प्रोचे, प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं, विलयं यात्वधं मम ॥ ७३ ॥ किं न प्राप्तं मया त्रातः 1 ९, शुद्धयामि यद्यतस्ततः । सग्रामाश्वेभकोशा भूर्दता तेऽम्बुधिमेखला || ७४ ।। प्रणम्य मुनिमङ्गारमुखोऽवादीत्कृताञ्जलिः । राजा यदभिधत्तेऽसौ प्रतिपद्यस्व तत् किल ।। ७५ ।। अथापवार्य राजानमूचतुः सुहृदौ मृदु । अकाण्डे कोऽयमुत्पातो ११ राजन् ! विमृश मा मुह ॥ ७६ ॥ राजाऽवज्ञाय तद्वाचमूचे सप्रश्रयं मुनिम् । मदुक्तं भगवन्नस्तु, गृहाण वसुधामिमाम् ॥ ७७ ॥ क्षामाक्षरं मुनिः प्राह, दत्तास्मभ्यं मही त्वया । नार्हस्यतः परं पृथ्व्या, भोगमामेति सोऽब्रवीत् ॥ ७८ ॥ हरिश्चन्द्र ेण पृथ्वी मे, दत्तेत्यर्थे भवान् खलु । साक्षीति वाराणसीयं, कौटिल्यमादिशन्मुनिः ॥ ७६ ॥ कौटिल्योऽप्यवदद्राजन्नन्त्रार्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणागात् स स्वस्थानं मुदं नृपः ॥ ८० ॥ अथ व्यजिज्ञपत् कोऽपि शिष्यो यावदियं मृगी । तिष्ठेद्विपन्ना तात्रन्न, पाठस्तत्क्रियतां किमु ९ ॥ ८१ ॥
1
प्रथमः
परिच्छेदः
अजापुत्रक थान्तर्गता
सत्यहरि
श्चन्द्रकथा
॥१३५॥