SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथम: परिच्छेदः | सत्त्वेऽजापुत्रकथा 'तत्त्वानीव मते जैने नभसीव महर्षयः । धातवो वपुषीवाऽत्र, सन्ति क्षेत्राणि सप्त वै ॥४८॥ षटकलायुतषविंशत्यधिकः पञ्चभिः शतैः । योजनानां मितं क्षेत्रं, तत्रास्ति भरताभिधम् ॥ ४ ॥ हैमचैत्यस्थतीर्थेशबिम्बस्नात्रोत्सवादिभिः । तत्रातिमेरुचूलाऽस्ति, श्रीमच्चन्द्रानना पुरी॥५०॥ यस्यां नद्यामिवा! मिः, पूर्णायां रत्नरश्मिभिः । मजन्त्यर्ककराश्चित्रं, व्योमाब्धितरणक्षमाः ॥५१॥ चासोद कुट्टिमारूढतरुण्यास्येन्दुसंहतौ । लाञ्छनादङ्गुलीदश्यों, यस्यां विज्ञायते शशी ॥ ५२॥ पृष्ठोपवननीलाश्मवेश्मान्याभान्ति यत्र च । लुलितकलापा भूमावासीना इव केकिनः ॥ ५३ ।। सरित्तूपसरोवापीशालिन्यामपि यत्र न । महच्चित्रं विलोक्यन्ते, 'कूपदेशा जलाशयाः ॥ ५४॥ चन्द्रापीडो नृपस्तस्यामभूदिन्दुरियाम्बरे । रिपुस्त्रीनेत्रकुमुदकोशाकृष्टाश्रुषट्पदः ॥ ५५ ॥ यत्खडगः प्रतिराजमूद्धंसु पतस्तद्भालराज्याक्षरा-ण्यादायान्तरधारणापटुतयाऽभूत् पुष्करैः साक्षरः । क्षत्रच्छात्रजनाय नायकतया भूयो ददत्तान्युपाध्यायत्वं तनुते स्म विस्मयकर विद्वज्जनानां हृदि ॥५६॥ अपि चयेषामुद्धतयुद्धशुद्धवपुषामुत्खातकीय ब्जिनी-कन्दच्छेदविनोदमेदुरमुदा येनाऽत्र विक्रीडितम् । त्यक्त्वा तदयिताश्रुमिश्रण कोष्णाम्भोभुवो यद्यशो-हंसोऽगाद् धुधुनी स तैर्दिविषदीभूततः शत्रुभिः॥ ५७ ॥ तत्राभूद्धर्मनिष्णातो, धर्मोपाध्यायसंज्ञकः । द्विजः शान्तो दयागेहं, ज्योतिःशास्त्रविशारदः ।। ५८ ।। १. "जीवाजीवाश्रवसंवरबन्धनिर्जरामोक्षास्तत्त्वम्" तत्त्वार्थ० अ०१ सू०४ । २. कुत्सितोपदेशो येषाम् । ३. जड आशयो येषाम् । ९
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy