________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रक. थान्तर्गता सत्यहरिश्चन्द्रकथा
यावत्तल्लीनहृदयो, हरिश्चन्द्रः पठन्नभूत् । नभःस्थस्तावचेऽथ, तापसः कोऽपि भोतिभाक ॥ १३ ॥ महाराज ! हरिश्चन्द्र !, त्वयि शासति मेदिनीम् । नाऽभूद्भयावकाशोऽपि, स्वस्थे चेतसि देहिनाम् ॥ १४॥ परन्त्वकस्मादस्माकमाश्रमे सुतपस्विनि । पठल्लघुतरच्छात्रे, पात्रे फलितभृरुहाम् ॥ १५ ॥ कुतश्चिदपि कोऽप्येत्य, वराहो विकटाकृतिः । इतस्ततः परिभ्राम्यन् मृद्गनास्ते लताद्रुमान् ॥ १६ ॥ युग्मम् ।। ततस्त्रायस्व तस्मान्नस्त्यक्तशस्त्रास्तपस्यतः। पुरामिवाश्रमाणां च, त्राता येन त्वमेव हि ॥१७॥ इति प्रोच्चैब्रुवाणेऽस्मिन् , राजा ससम्भ्रमोत्थितः । एष हन्मि दुरात्मानं, क्रोडं प्रत्यशृणोदिति ॥१८॥ तडिद्वत्तापसः शीघ्र, बभूवागोचरे दृशोः । प्रातःकृत्यानि कृत्वाथ, राजा पर्याणयद्धयम् ॥१६॥ सन्नह्यदेवमुक्त्वाथ, सैन्यमुत्कमना नृपः । व्यापिपादयिषुः स्वेन, वराहं निरगात् पुरात् ॥ २०॥ मनोजवमथारुह्य, गच्छत्यश्वे स भूपतिः । अभिमुखायातमिव, वनं तदासदत्क्षणात् ॥ २१॥ अपश्यच्छरयं क्रीडाकलहाकुलहंसकान् । पुत्रानिवाब्जशय्यायां, दोलयन्तीं करोम्मिभिः ॥ २२ ॥ राजाऽपृच्छत् कपिञ्जलकुन्तलौ पार्श्ववर्तिनौ । क्क १ स वराहस्तावप्यूचतुर्नाथायमग्रतः ॥ २३ ॥ वराहस्तद्वचः श्रुत्वा, घुघुरायितमुच्चकैः । कुर्वाणोऽभिनृपं क्रोधाद्दधावे शौर्यपर्वतः॥२४॥ लघुहस्तस्ततो राजा, रोमाञ्चाश्चितविग्रहः । अलश्चकार कोदण्डं, तच्छौर्यान्मानदण्डवत् ॥ २५॥ रोदसी इव टङ्कारैः, पूरयंस्तद्वपुः शरैः। वराहं पातयामासाद्रिपक्षमिव वासवः ॥२६॥
॥१३१॥
R||१३१