________________
सत्यहरिश्चन्द्रकथा।
चन्द्रप्रमस्वामि चरित्रम्
प्रथम: परिच्छेदः
अजापुत्रका थान्तर्गता सत्यहरिश्चन्द्रकथा
इति बौद्धं वचः श्रुत्वा, राजा श्रीमानजासुतः। जहष यत्प्रहष्यन्ति, साचिकाः सत्वदर्शनात ॥१॥ सुबुद्धिसचिवेनाथ, वीक्षिते प्राह तापसः । मन्त्रिन् ! श्रीमदजापुत्रसत्त्वे कः स्यानिदर्शनम् १ ॥२॥ सत्त्वं हि जीवितं नृणां, सत्त्वमेव हि कीत्तये । विना सत्त्वं पुमांसोऽपि, स्त्रीपङ्क्त्यासनभाजनम् ॥३॥ भाव्येवं श्रूयते जम्बूद्वीपेऽयोध्याऽस्ति पूर्वरा । सापत्न्यं यत्र दुःखेन, न सौख्यस्य वपुष्मताम् ॥ ४॥ जम्बूद्वीपस्थितिरिव, रम्यकविजयान्विता । सदा यतिप्रशस्या च, नभाश्रीरिव या खलु ॥ ५॥ वेदपाठनिकेवाथ, सदा यज्ञोपशोभिता । विन्ध्याचलधरित्रीव, नानावंशोपसेविता ।। ६॥ इतस्ततः स्वावस्थानादत्तसञ्चारमन्दिराः । दत्ता अप्यर्थिनेऽमोद्यत्रायान्ति पुनः श्रियः॥७॥ तस्यां पाति प्रजा राजा, हरिश्चन्द्रो महाभुजः । यन्नीतितिका कीर्तिधर्मयोः सङ्गमं व्यधात् ॥८॥ यन्न्यायकोमलकरैः, स्पृष्टा पूस्तरुणी बहिः । रोमाञ्चोपचितेवाऽभूद्रत्नगेहप्रभाङ्कुरैः ॥॥ अन्यदा रात्रिपर्यन्ते, सुखसुप्तो महीपतिः । स्वप्नेऽशृणोदिमामायाँ, सत्वाम्भोनिधिकौमुदीम् ॥१०॥ आर्या-सत्त्वं प्रतिभूः सम्पदमपेयितं तन्न तच्छुलथं कार्यम् । मुखसौरभकारि यतः कपूरं रक्ष्यते यत्नात ॥११॥ एनां श्रुत्वा पठन्नेव, जहौ निद्रां महीपतिः । पुनः पुनः परावृत्तेः, प्रशशंसार्थगौरवम् ॥ १२ ॥
॥१३०॥
॥१३०॥