SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१२६॥ ततोऽस्थिशेषं तं त्यक्त्वा, विषण्णे पन्नगेश्वरे। जीमूतवाहनवधूगु रुभ्यामाययौ सह ॥ १०६ ॥ दृष्ट्वा मलयवत्यग्रे, प्राणनाथं तथागतम् । मुमोहापूर्वशोकाग्निधूमेनेवान्धकारिता ॥ १०७ ॥ जीमूतकेतुस्तनयं विलोक्य सह जायया । पपातामूलनिलून, इव चन्दनपादपः ॥ १०८ ॥ तायेणाश्वास्यमानेषु तेषु जीमूतवाहनम् । संस्पृश्य पाणिना माता, शुशोच करुणस्वनम् ॥ १०६ ॥ मुहूर्त्तशेषजीवोऽपि, सोऽब्रवीजननीं शनैः । मातर्विनश्वरस्यास्य किं शरीरस्य शोच्यते १ ॥ ११० ॥ भवेऽस्मिन् पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे । जायते पुण्ययोगेन, परार्थे जीवितव्ययः ॥ १११ ॥ उक्त्वेति वेदनामूर्च्छामाजगाम महीपतिः । पतिमार्गमनुसृत्यामूर्च्छन्मलयवत्यपि ॥ ११२ ॥ सामृच्छन्तेऽथ सस्मार, देवीं तां स्ववरप्रदाम् । सा साक्षादेव भूत्वा च तद्वल्लभमजीजिवत् ॥ ११३ ॥ चक्रवर्त्तिश्रियं चास्मै दत्त्वा क्षिप्रं तिरोदधे । ततो देवाः सगन्धर्वास्तस्य सत्त्वमपू पुजत् ॥ ११४ ॥ गरुडोऽप्यथ हृष्टात्मा, वरदस्तेन याचितः । प्रददौ सर्वनागानां पुण्यामभयदक्षिणाम् ॥ ११५ ॥ पितृभ्यां प्रेषितो हर्षात्, स्वराज्यस्योदिधीर्षया । स प्राप काञ्चनपुरं व्योम्नैव दयितासखा ॥ ११६ ॥ ॥ जीमूतवाहनकथा समाप्ता ॥ ग्रन्थाग्रम् ११६ ॥ प्रथमः परिच्छेदः अजापुत्रथान्तर्गता जीमूतवाहन कथा । ॥ १२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy