________________
चन्द्रप्रभस्वामि 'चरित्रम्
॥१२८॥
तद्दृष्ट्वा मङ्क्षु सम्भना, शिरीपलतिकेव सा । जीमृतकेतवे तन्वी, परित्रस्ता न्यवेदयत् ॥ ६२ ॥ स्वविद्यया परिज्ञाय, स्वस्नोर्जीवितव्ययम् । भार्यास्नुषाभ्यां सहितः, सौपणीं तां शिलां ययौ ॥ ६३ ॥ व्यावृत्तः शङ्खचूडोऽपि निवर्त्य जननीप्रिये । वपुर्गरुत्मते दातुं द्राग् तां वध्यशिलां ययौ ॥ ६४ ॥ तत्रापश्यन्नखमुखोत्खातस्खलितशेखरम् । विद्याधरेन्द्रमादाय, तार्क्ष्यमुत्पतितं दिवि ॥ ६५ ॥ तं वीक्ष्य साश्रू नयनो, विना घातं विदारितः । आत्मानं तद्वधे मत्वा, कारणं विललाप सः ॥ ६६ ॥ हा ! सत्त्वविपुलौदार्यधैर्यगाम्भीर्यसागर ! | हा ! पूर्ण करुणावास ! हा ! निष्कारणबान्धव ! ॥ ६७ ॥ इति शोचन् स पदवीमनुसत्तु गरुत्मतः । जगाम जीवितत्यागहढी कृतसुनिश्चयः ॥ ६८ ॥ आस्वाद्यास्वाद्य तार्क्ष्योऽपि, गिरौ जीमूतवाहनम् । क्षिप्रं स्थगित संरम्भः, प्रदध्यौ विस्मयाकुलः ॥ ६६ ॥ अहो ! नु सचवानेष, कोऽपि धैर्यमहोदधिः । भक्ष्यमाणस्य यस्याङ्गे, जायन्ते पुलकाङ्कुराः ॥ १०० ॥ प्रसन्नवदनः क्षिप्तशेषजीवोऽपि वर्त्तते । चिन्तयित्वेत्यपृच्छत्तं, कोऽसीति विनितात्मजः १ ॥ १०१ ॥ सतं प्राह किमेतेन, तव भक्षय मामिति । अस्मिन्नवसरेऽभ्येत्य शङ्खचूडस्तमब्रवीत् ॥ १०२ ॥
हा !! मामा कृथास्ता !, साहसं किं न पश्यसि १ । अस्य विद्याधरेन्द्रस्य, स्वस्तिकाङ्कमुरस्तटम् ॥ १०३ ॥ अहं स नागस्ते भक्ष्यः, पश्य जिह्वालताद्वयम् । विस्फूर्जद्विषहूङ्काररत्नस्फीताः फणाश्च मे ।। १०४ ॥ इस्युक्त्वा विपुलं वक्षः, प्रसार्योत्तानविग्रहः । तूर्णं मां भक्षयेत्याह स सुपर्णे पुनः पुनः ॥ १०५ ।।
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तर्गताजीमूतवाहन
कथा |
॥१२८॥