________________
चन्द्रप्रभस्वामि
चरित्रम्
॥१२७॥
किन्तु माता मदीयासावाश्वास्या भवता विभो ! । येन त्वं क्षणदृष्टोपि, साधुः सुचिरबान्धवः ॥ ७८ ॥ इति नागकुमारस्य वचः श्रुत्वा कुलोचितम् । जीमूतवाहनः प्राह बत ! चित्रं प्रभाषसे ॥ ७६ ॥ वृद्धेयं त्वां विना पुत्रं, कुलालङ्कारणं सखे ! कथं जीवति दुःखं हिं, जननीनां सुदुस्सहम् ॥ ८० ॥ एनां त्रातुं स्वमात्मानं, रक्ष त्वज्जीविता ह्यसौ । किञ्चैषा प्राणदयिता, किं जीवति विना त्वया ॥ ८१ ॥ द्वयोः प्राणपरित्यागे, विद्वन ! मा कारणं भव । मदीयेन शरीरेण, त्रयं पाहि महामते ! ॥ ८२ ॥ इत्युक्त्वा शङ्खचूडस्य, पादयोर्निपपात सः । प्रार्थितो मातृभार्याम्यामप्यमन्यत नापरः ॥ ८३ ॥ अभ्येति गरुडो याहि यामि गोकर्णदर्शने । उक्त्वेति मात्रानुगते, याते तस्मिन् क्षणादभूत् ॥ ८४ ॥ उच्चण्डाकाण्डकल्पान्तवातव्याकुलितं जगत् । उत्तस्थुर्मकरोत्फुल्लकरालाः सागरोर्म्मयः ॥ ८५ ॥ आगतं गरुडं ज्ञात्वा, सूचितं पक्षमारुतैः । आरुरोह मुदा वध्यशिलां जीमूतवाहनः ॥ ८६ ॥ विवाहांशुकसञ्छन्नः, स्थितस्तत्र व्यचिन्तयत् । सत्त्वोपकाराय पुनर्जन्म भूयान्ममेति सः ॥ ८७ ॥ ततोऽदृश्यत दिग्दाहदारुणच्छविरम्बरे । प्रलयाग्निशिखालोलपक्षाक्षेपः खगेश्वरः ॥ ८८ ॥ ततः स तस्य धैर्याब्धेर्विद्याधरशिरोमणेः । जहार शिरसः खण्डं, चूडारत्नेन मण्डितम् ॥ ८६ ॥ पुनः शरीरमादाय, तस्य तुण्डेन खेचरः । गगने वलयाकारं, चकार गतिविभ्रमम् ॥ ६० ॥ तच्चञ्चुक्रकचभ्रष्टं, रक्तधारापुरस्सरम् । अङ्के मलयवत्यास्तच्चूडारत्नमथापतत् ॥ ६१ ॥
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता जीमूतवाहन
कथा ।
॥१२७॥