________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
इति वदन्ती पुत्रास्यमाघ्राय विललाप सा । अथ युवतिरप्येवं, रुदत्यङ्गानि साब्रवीत् ॥ ६४ ॥ विननं नाथमधुनाञ्जनेनालं दृशौ ! हि वाम् । शेखरेण शिरस्तेऽथ, केशाः ! पुष्पश्रिया च वः॥६५॥ श्रवणौ ! कुण्डलाभ्यां वां, कण्ठ ! मुक्तास्रजा च ते । बाहङ्गदसुलक्ष्म्या वां, कङ्कणाद्यैश्च वां करौ!॥ ६६ ॥ विलीनं युवयोः पादौ !, नू पुरारवकौतुकम् । कौसुम्भाम्बरशोभां च, दैवं क्षाम्यति नाङ्ग! ते ॥ ६७ ॥ सखीभिः क्रीडनं दूरे, वसन्तादिमहोत्सवे । कश्मीरजाङ्गरागोऽपि, स्मर्तव्योऽभूदतः परम् ॥ ६८ ॥ यतः कोऽप्यस्ति न त्राता, प्राणेशस्यान्तमीयुषः । रोदयन्ती लताकुज, सा रुरोद मुमृद्धं च ॥६॥ जीमूतवाहनोऽभ्येत्य, द्रागुवाच कृपाकुलः । मातः ! स्थितोऽस्मि ते पुत्रपरित्राणकृते क्षणम् ॥ ७० ॥ परोपकारः संसारे, निःसारे प्राप्यते कुतः । अयमेव सदापाये, काये सारसमुच्चयः ॥ ७१॥ यत्प्रयाति परापायवाणसत्पुण्यपात्रताम् । इत्याकण्य च सा त्रस्ता, सुपर्णाशकिनी ततः ॥ ७२ ॥ पुत्रमाच्छाद्य साशङ्का, सा पुनः प्रणनाम तम् । निजप्राणैरहं त्राता, तत्पुत्रस्येति सोऽभ्यधात् ॥ ७३ ॥ वृद्धावदत्त्वं तनयः, शङ्खचूडाधिको मम । वह कल्पशतं धन्या, पुत्र ! सौम्यामिमां तनुम् ॥ ७४ ॥ इति तस्या वाणायां, शङ्खचूडोऽतिविस्मितः । तमभ्यधात् स्मितमुखो, ललाटरचिताञ्जलिः ॥७५॥ अभिनन्दितमेतत्ते, दर्शनं सत्वशालिनः । अहो ! यत्त्वं निजान् प्राणान् , मदर्थे दातुमुद्यतः॥ ७६ ॥ सहामहे कथं नाम, तृणार्थे रत्नविक्रयम् । न विना कौस्तुभं वाद्धौं, भाव्यन्यद्रत्नमुत्तमम् ।। ७७॥
अजापुत्रक. थान्तर्गताजीमूतवाहन कथा।
॥१२६॥
॥१२६॥