________________
चन्द्रप्रभस्वामि चरित्रम्
॥१२५॥
जीमूतवाहनोऽप्याशु समेत्य पितुरन्तिकम् । ततो महोत्सवानन्दिविद्याधरशतानुगः ॥ ५० ॥ परिणीय प्रियतमां, सोऽभूत् सम्भोगतत्परः । कदाचिदथ तद्भ्रात्रा, स मित्रावसुना सह ॥ ५१ ॥ चचाल जलधेर्वेलावनान्तमवलोकयन् । ददर्श तत्र शिखराकारं तारास्थिसञ्चयम् ॥ ५२ ॥ त्रिभिर्विशेषकम् ॥ किमेतदिति ? तेनाशु, पृष्टो मित्रावसुस्ततः । उवाच गरुडेनात्र, भक्षिता भुजगोत्तमाः ॥ ५३ ॥ सर्वक्षयभयातास्ततो वासुकिनार्थितः । विसृष्टं तेन वारेण, सदैकं नागमत्यसौ ॥ ५४ ॥ अयमस्थिचयस्तेषामद्रिंकूटसमुच्छ्रितः । उक्त्वेति जनकाहूतस्तूर्णं मित्रावसुर्ययौ ॥ ५५ ॥ जीमूतवाहनोप्येष, सर्पेषु करुणाकुलः । चचार तत्र संसारं, निःसारं कल्पयन् धिया ॥ ५६ ॥ ततो ददर्श करुणाक्रन्दशुष्काधराननां । वृद्धां स युवतिं चैकां विलपन्तीं मुहुः शुचा ॥ ५७ ॥ आनन्दमिव साकार, सन्तोषमिव जङ्गमम् । स्फुरत्स्फुटफणारत्नपुञ्ज पिञ्जरिताम्बरम् ॥ ५८ ॥ संवीतरक्तवसनं !, रक्तचन्दन चर्चितम् । नागकुमार मद्राक्षीच्छोष्यमानं तु वृद्धया ॥ ५६ ॥ हा ! पुत्र ! नयनानन्द ! सौन्दर्यामृतदीधिते ! । शङ्खपालमहावंशव्यक्तमुक्तामणिद्युते ! ॥ ६० ॥ हा ! शङ्खचूड ! लावण्यनिधानमिदमेव ते । वपुर्गरुडचञ्चूग्रवज्रपातसहं कथम् ९ ॥ ६१ ॥ भीतेन नागराजेन, प्रेषितोऽसि गरुत्मते । द्विजिह्वा सहस्रमध्यान्नैकयाप्यसि वारितः ॥ ६२ ॥ नात्र सुपुत्र ! प्राकू, क्लान्तिदुःखार्चिरादितः । सुकुमारे शरीरेऽस्मिन् कस्ते त्राणं करिष्यति १ ।। ६३ ।।
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता जीमूतवाहन
कथा ।
॥ १२५ ॥