________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रक| थान्तर्गता जीमूतवाहन कथा।
किश्च सन्दिश्यते तस्मिन् , किश्च वा स्वयमुच्यते ? सर्वथाऽनर्थसार्थेऽस्मिन् , मरणं शरणं मम ॥ ३६ ॥ वयस्यामभिधायेति, तूष्णीकाऽभून्मृगेक्षणा । जीमूतवाहनोप्यस्मिन् , क्षणेऽभूद्विरहातुरः ॥ ३७॥ तं ध्यानम्रकमभ्येत्य, क्षामं मधुकरः सखा । उवाच विप्लवः कोऽयं, तवापि मनसः सखे ! ॥ ३८॥ प्रत्यग्रचन्दनदलैः, कल्पिते सुहृदा ततः । निषण्णः शयने प्राप, न स सन्तापतानवम् ॥ ३१ ॥
अत्रान्तरे मलयवत्यभ्येत्य विरहासहा । काप्याश्रमतरुलताप्रान्ते पाशमकल्पयत् ॥ ४०॥ ततः प्रणम्य सा देवी, हा ! तातेति विलप्य च । विधाय साश्रुनयनास्तत्र बालमृगाङ्गनाः ॥४१॥ जीमूतवाहनो भूयादन्यस्मिन्मे सुजन्मनि । पतिरित्यभिधायाभूत , सा पाशाभिमुखी क्षणात् ॥ ४२ ।। युग्मम् ॥ तच्छु वा सुहृदाहूतस्तूर्णं जीमूतवाहनः । छन्नस्तरुलताजाले, तच्छुश्राव ददर्श च ॥ ४३॥ देवी प्राह ततस्तुष्टा, पुत्रि ! मा साहसं कुरु । भविता चक्रवर्ती ते, भर्ता जीमूतवाहनः ॥ ४४॥ इति देवीवरं प्राप्य, सा ददर्श पुरःस्थितम् । जीमूतवाहनं हर्षलज्जामुकुलितेक्षणा ॥ ४५ ॥ तस्याः कण्ठस्थितं पाशवन्धं जीमूतवाहनः । चिच्छेद पाणिना दधे, करं पाशापराधिनम् ॥ ४६ ॥
अत्रान्तरे समभ्येत्य, चेटिका तां व्यजिज्ञपत् । दिष्टयाद्य वर्धसे देवि !, प्रस्तुतस्ते महोत्सवः॥ ४७ ॥ त्वद्भात्रा जनकादेशादद्य विद्याधरेश्वरः । जीमृतकेतुपुत्रोऽसौ, वृतो जीमूतवाहनः ।। ४८॥ तदेहि कल्पितोद्यैव, विवाहो जनकेन ते । इति श्रुत्वा च सा तूर्ण, प्रययौ चारुहासिनी ॥ ४६॥
॥१२४॥
॥१२४॥