________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥ १२३॥
लक्ष्मीविलासभुवनं, भुजस्तम्भविभूषितम् । सापि लावण्यनलिनी, राजहंसं विलोक्य तम् ॥ २२ ॥ लज्जामजत्तनुलता, कम्पसम्पत्तरङ्गिता । असूत्र मौक्तिकलता, बभूव स्वेदविन्दुभिः ॥ २३ ॥ त्रिभिर्विशेषकम् ॥ ततः सहेलं तामेत्य, प्राह जीमूतवाहनः । प्रागुपायनकपूरमिव दन्तांशुभिर्दिशन् ॥ २४ ॥ आचाररुचिरः कोयं, क्रमस्ते चारुलोचने ! १। सम्भाव्यते न यत्पूर्व, स्वागतात् प्रणयीजनः ॥ २५ ॥ उक्त्वेति तन्मुखाम्भोजन्यस्तलोचनषट्पदः । अपृच्छत्तत्सखीं कर्णे, कुण्डलोद्योतिताननाम् ॥ २६ ॥ कुलालङ्करणं कन्या, कस्येयं ललिताकृतिः १ । इत्युक्ता तेन सा प्राह, सखी प्रणयमन्थरम् ॥ २७ ॥ विश्वावसोः सिद्धपतेर्वंशमृक्तालता सुता । इयं मलयवत्याख्या, नित्यं देवीस्तुतिव्रता ॥ २८ ॥ निवेद्येति सखी क्षिप्रं तद्वयस्यादथाशृणोत् । जीमूतवाहनकथां, प्राज्याभिमानशालिनीम् ॥ २६ ॥ इयमालोक्यते दृग्भ्यां, तदेतज्जन्मनः फलम् । इति ब्रुवाणे सानन्दं, विद्याधरनराधिपे ॥ ३० ॥ आहूता सा प्रतीहार्या, प्रतस्थे मातुरन्तिकम् । न्यस्तं त्वयि मनः पाल्यमिति वाग् नूपुरावैः ॥ ३१ ॥ सुकुमारेण मनसा, वहन्ती तं महाभुजम् । निजमन्तःपुरं प्राप्य, निःश्वसन्ती श्लथांशुका ॥ ३२ ॥ पपात शयनोत्सङ्गे, दष्टा मकरकेतुना । तस्याः प्रववृधे क्षिप्रं स कोऽपि विरहानलः ॥ ३३ ॥ सा लज्जातरला प्राह, तां सखीं पार्श्ववर्त्तिनीम् । किं करोमि १ क्व गच्छामि १ कस्यैतत्कथयामि च १ ॥ ३४ ॥ अयं कन्याविरुद्धो मे, क्रमः कामेन निर्मितः । दूत्यादिशामि सन्देशं, प्रयामि स्वयमेव वा ।। ३५ ।।
प्रथमः
| परिच्छेदः
अजापुत्रकथान्तर्गता जीमूतवाहन
कथा ।
॥१२३॥