________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेद:
अजापुत्रकथान्तर्गता जीमूतवाहन कथा।
तेन दारिद्रयनाशाय, जगति प्रतिपादितः । हेम्ना सम्पूर्य निखिलं, क्षणात् सोन्तर्दधे द्रुमः॥८॥ कुलक्रमागते तस्मिन् कल्पवृक्ष व्ययीकृते । अपूर्वत्यागिना तेन, त्रिलोकी विस्मयं ययौ ॥४॥ ज्ञात्वा तं प्रतिसामन्ता, रहितं सुरशाखिना । तद्राज्यहरणोद्योगे, बभूवुः संहता मिथः ॥१०॥ जीमूतवाहनो ज्ञात्वा विद्यया तद्विचेष्टितम् । तद्वधे कूणितमना, राज्यं तत्याज निःस्पृहः ॥११॥ तपस्यन्तं मलयाद्री, स्वपितरं समातरम् । शुश्रृषितुमगात्तस्मिन्नाकृष्टः पितृभक्तिभिः॥१२॥ यत्र विद्याधरवधूमधुगण्डूपनिर्भरैः। जम्मेवारम्भि बकुलैः, पुष्पाननविकाशिभिः ॥ १३॥ यत्रोद्धतालिपटलं, विलोक्य घनविभ्रमम् । नृत्यन्ति हेमकदलीकुञ्जेषु शिखियोषितः ॥ १४ ॥ उत्कण्ठाकोमलं यत्र, गीतं किन्नरयोषिताम् । शृण्वन्ति निश्चलाः साश्रुनयना हरिणाङ्गनाः ॥ १५ ॥ नमन्नाश्लिष्य, सस्नेहाल , प्रोक्तः पित्रा विलोकय । क्वापि स्थानं नवमिति, गिरौ वभ्राम तत्र तु ॥ १६ ॥ ददर्श तत्र वैताढ्यशिखरस्फारविभ्रमम् । गङ्गायितपताकाङ्क, दिव्यप्रासादमत्र च ॥१७॥ गौरीगर्भगृहेऽश्रौषीत् , गीतं वीणास्वनाश्रितम् । कन्यामपश्यत्संसारसारं सरसिजेक्षणाम् ॥ १८॥ वदनाम्भोजभृङ्गाली, या बभारालकावलीम् । प्रशस्तिमिव कामेन, न्यस्ता सौभाग्यभूपतेः ॥ १६ ॥ तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् । क्षिप्रं नवावतारेण, स्मरेण तरलीकृतः ॥२०॥ विस्तीर्णसुकृतप्राप्यं, तारुण्यसुरपादपम् । प्रशान्तविग्रहकथं, त्यक्तचापमिव स्मरम् ॥ २१ ॥
॥१२२॥
॥१२२॥