________________
चन्द्रप्रभस्वामि
चरित्रम्
॥१२१॥
यथात्रायमजापुत्रः, सत्वसत्यैकमन्दिरम् । अन्तरात्मानमानन्दमानयच्चरितैर्निजैः ॥ ४३६ ॥ - तथा कथयत स्वस्वदर्शनानुस्मृतिस्पृशम् । भूतं वा भाविनं वापि सत्त्वे संवादिनं नरम् ॥ ४४० ॥ अथाह बौद्धः प्रथमं, मन्त्रिराज ! किमुच्यते १ सच्चक्रीत जगच्छ्लाघाढ्य भविष्णुरजासुतः ॥ ४४१ ॥ शूरेष्वथ च सत्येषु साचिकेषु मनस्विषु । प्रतिभाषेत कोऽनन्यः, कथ्यमानोऽपि वाग्मिभिः ।। ४४२ ॥ परं तथापि प्रथितं कथासु कथयाम्यहम् । चेत्पुनः संवदत्यत्र, भावी जीमूतवाहनः ॥ ४४३ ॥
॥ अथ जीमूतवाहनकथा ॥
अस्ति श्रीकाश्चनपुर, मूर्छिन वैताढ्यभूभृतः । रत्रप्राकार किरणैरभ्रान्तोल्लिखिताम्बरम् ॥ १ ॥ जीमूतकेतुस्तस्याभूद्विद्याधरपतिः पतिः । यस्याशेषस्य यशसः प्रख्याता काप्यनन्तता ॥ २॥ विद्याधरेन्द्रदुहिता भार्याऽभूत्तस्य सम्मता । कान्ता कनकवत्याख्या, ख्यातिक्षेत्रं मनोभुवः ॥ ३ ॥ तेनाजनि सुतस्तस्यां कल्पद्रुमवराद्वरः । जीमूतवाहनो नाम, समूहो गुणसम्पदाम् ॥ ४ ॥ तं सर्वगुणसम्पूर्ण, निजे राज्ये निधाय तु । कल्पवृक्षं क्रमायातं दत्त्वाऽगात्तपसे पिता ॥ ५ ॥ जीमूतवाहन लब्धराज्यकल्पद्रुमोऽपि हि । पितृवियोगदुःखार्त्तो, नान्तः सौख्यमवाप सः ॥ ६ ॥ कान्ता कटाक्षविक्षेपचपलं यौवनं धनम् । जीवितं चेति स ध्यात्वा तमचिन्त्यतरुं ददौ ॥ ७ ॥
प्रथमः
परिच्छेदः
अजापुत्रक| थान्तर्गता जीमूतवाहन
कथा |
॥ १.२१ ॥