SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: | परिच्छेदः इति निश्चित्य चित्तेन, विषादानन्दभागसौ । मन्त्रिभिर्वार्यमाणोऽपि, हरिषेणस्ततोऽचलत् ॥ ४२५ ॥ यस्मिन्नास्ते गिरी सूरिमहात्मा विनयन्धरः । तत्रैव भृगुपाताय, हरिषेणस्ततोऽगमत् ॥ ४२६ ॥ मम भ्राता श्रीषेणोऽयं, यतीभृतस्तपस्यति । विनयन्धरमाचार्य, वीक्ष्यानंसीन्मुदाथ सः। ४२७॥ . तस्य सम्भाषमाणस्य, सूरिनवोत्तरं ददौ । अथासौ चिन्तयामास, स्वचित्तेन सविस्मयः ॥ ४२८ ॥ न चलति न च ब्रूते, दृशो नयति नान्यतः । यदेतत्कष्टमारेमे, मुमुक्षुस्तन्ममानुजः ॥ ४२६ ।। तदलं भृगुपातेन, पन्थाः शरणमस्य मे । यन्मृत्युर्वाञ्छितो मे स्यादनेनाऽपि पथा खलु ।। ४३०॥ आस्ते मूरिर्यथैवैष, निषण्णो भुवि निश्चलः । हरिषेणोऽप्यभूत्तद्वत् , तत्सूरेः प्रतिविम्बवत् ॥ ४३१ ॥ इत्थं द्वावपि पादपोपगमनस्वीकारभारक्षमौ, सिंहव्यालकरालकायकपणेर्नोपद्रवैन्यक्कृतौ । शुद्धध्यानविलीनकर्मनिगडौ संसारकारागृहानिःसृत्यायुपि पूर्णतायुषि शिवं मृत्वाथ तो जग्मतुः॥४३२ ॥ इति सत्पुण्यविषये हरिषेणश्रीषेणकथा ॥ ग्रन्थाग्रम् ४३४ ॥ इति श्रुत्वा कथामेनामाश्चर्यानयन् शिरः । किश्चिदुद्भुतनिद्रः सन् , सुष्वापाजासुतो नृपः ॥ ४३५ ॥ प्रातरुत्थाय देवार्चा, कृत्वा सदस्युपाविशत् । आगात् सुबुद्धिमन्त्री च, तत्र पौरैः समावृतः ॥ ४३६॥ अजापुत्रस्य तत्सत्त्वं, विलोक्य सचिवोऽमृतम् । अन्योऽपि कोप्यभूदीहा, सत्वतत्वस्य भाजनम् ॥ ४३७ ॥ इति प्रष्टुं दर्शनिनः, कांश्चिदाजूहवत् क्षणात् । पृथक् पृथगपृच्छच्च, नृपसब्रह्मचारिणम् ॥ ४३८ ।। अजापुत्रक. थान्तर्गता हरिषेण. श्रीषेणकथा ॥१२०॥ ॥१२०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy