SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा राज्ये कृतपूर्वोयक्षकर्दमादिविलेपनम् । स कर्मक्षालनायेवोक्षद्गात्रं वमनाम्भसा ॥ ४११॥ तेनाम्भसोपशान्तान्तःकाग्निरिव निवृतः । अजुगुप्सः सरित्पुत्रो, बालं संवाहयत्यथ ॥ ४१२॥ अपूर्वविनयेनाऽस्य, मिथ्यागपि रञ्जितः। बालर्षि व्यन्तरो मुक्त्वावादीत्प्रत्यक्षतां गतः ॥ ४१३ ॥ साधु साध्वसि राजर्षे!, विनीतेषु शिरोमणे ! अनुभूतराज्यः कोऽन्यो, विनयी स्याद्भवादृशः॥ ४१४ ॥ इत्युक्त्वा व्यन्तरो नत्वा, सरित्पुत्रं स भावतः । वृथा कदर्थितं बालं, क्षमयित्वा तिरोभवत् ।। ४१५ ॥ सर्वथाप्यकृतौद्धत्यः, सरित्पुत्रः पुरेव सः । साधूनां विनयं कुर्वन् , सिद्धान्तानध्यजीगपत् ॥ ४१६ ॥ षत्रिंशद्गुणपूर्णत्वाद्योग्यं मूरिपदस्य तम् । गणाभीष्टं सरित्पुत्रमाचार्य सूरयो व्यधुः ॥ ४१७ ॥ विनयन्धर इत्याख्या, तत्सूरेः सूरयो ददुः। स गुरुभिरनुज्ञातो, व्यहरत्साधुभिवृतः ।। ४१८ ।। प्रबोध्य भविकान् श्मायां, विनयन्धरसूरयः। गणं मुक्त्वा गिरौ क्वापि, पादपोपगतिं व्यधुः ॥ ४१६ ॥ इतश्च हरिषेणोऽपि, शरप्रहारजर्जरः । अमात्यै रङ्गशालायां, नीतः पटुरभूच्चिरात् ।। ४२० ॥ ततस्तस्य यथावृत्ते, सचिवैः कथिते सति । स्वभ्रातृव्यं स्वयं राज्ये, हरिषेणो व्यधात्ततः ॥ ४२१॥ स्वयं दध्यौ कनीयांसं, निहन्तु' भ्रातरं मया । द्विरुपक्रान्तेऽपि न यत् , स हतस्तद्धि साध्वभूत् ॥ ४२२॥ उत्तमर्णस्याधमांदशक्तो वस्तु दापने । स्वयं ददन मिथ्या स्यात् , स्ववाचि प्रतिभूयथा॥ ४२३ ।। तथाहमपि स्वभ्रातुमृत्युमानेतुमक्षमः । तस्याहेरनृणीकुर्वे, स्वमात्मानं स्वमृत्युना ॥ ४२४ ।। ॥११॥ ॥११॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy