________________
चन्द्रप्रभस्वामि
प्रथमः परिच्छेद:
चरित्रम्
प्रवृत्तः स तथाकतु , तदौषधवशादथ । प्राहाकुलः स बालर्षिः, कदाचिन्मे वलिष्यति ॥ ३६७॥ तत्साधो ! भाजनं किञ्चित् , क्वापि वीक्ष्य समानय | असौ बालर्षिणेत्युक्तो, लग्नः शोधयितु हि तत् ॥ ३६८॥ भूमि प्रमार्जयन ध्वान्ते, रजोहरणतः शनैः । वसत्यन्तः किमप्येष, नैक्षिष्ट भाजनं ततः॥ ३६६ ।। महात्मन् ! किं विलम्बोऽयमेहि स्थात क्षमो न यत् । आतंबालर्षिणेत्युक्तोऽभ्येत्य नास्तीति सोऽवदत् ॥ ४०॥ अशक्तस्य बहिर्गन्तु', संस्तरो मे भरिष्यति । इत्याकुलस्य बालरागादोत्कारिका ततः ॥ ४०१॥ सरित्पुत्रो महासत्त्वो, जुगुप्सादोषवर्जितः । गतान्योपायस्तद्वक्त्रस्याधः स्वप्रमृति न्यधात् ॥ ४०२॥ वम त्वमत्र निःशङ्कमित्युक्तस्तेन साधुना । बालर्षिश्वावमत्तत्र, विनान्नं केवलं पयः ॥ ४०३ ॥ स्थण्डिले प्रेक्षणं रात्रौ, न शुद्धयत्यन्धकारतः । कथमेतत्परिष्ठाप्यमिति तस्थौ तथैव सः॥४०४॥ ततश्चक्रन्द वालर्षिः, क्रूरव्यन्तरपीडितः । अहो ! स्फुटति मे गात्रं, तन्मां मर्दय हे मुने! ॥ ४०५ ।। रुद्धहस्तेऽम्बुना साधौ, संवाहनमकुर्वति । नामभिः स मुनीनन्यानुत्थापयितुमारटत् ॥ ४०६ ॥ मयि सत्यपि साधूनां, मा भूदुजागरो हहा !! बालषिर्वाध्यते चायं, स्फुटता वपुषा च हा !॥ ४०७ ॥ प्रेक्षोत्प्रेक्षे बिना भूमौ, पयस्त्यक्तुं न युज्यते । पानाहारप्रत्याख्यानान्नैतत्पातुक्षमोऽस्म्यहम् ॥ ४०८ ॥ विमृश्येति बहूपायान् , निश्चिकाय धियेति सः । तैलेनेवाम्बुनानेन, वपुः स्वं प्रक्षयाम्यहम् ॥ ४०६॥ नैवं जन्तुविधातो मे, न साधूजागरोऽपि च । रिक्तीभूतकरः पश्चाद्वालपि मर्दयाम्यहम् ४१०॥
अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा
॥११८॥
॥११८॥