SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रक थान्तर्गताहरिषेणश्रीषेणकथा अपडक्षीणमाहेष, तं पाठोत्कण्ठितं मुनिम् । वितराम्यौषधं तेऽहमायाति पठतो यथा ॥३८३॥ अथ बालमुनिः पाठे, न्यक्कृतस्तुल्यपाठकैः । आहौत्सुक्यान्महाभाग !, देहि देहि ममौषधम् ।। ३८४॥ अथ स व्यन्तरः श्राद्धोऽस्मै किमप्युग्रमौषधम् । कुर्याद्भुक्तोर्ध्व मित्युक्त्वा, तत्समप्य च सोऽगमत् ॥ ३८५ ॥ बालर्षिः क्षधितोऽस्मीति, विचार्य स्वयमेव सः । कृत्वा ग्रासं जघासैतदौषधं मुखशुद्धिवत् ॥ ३८६ ॥ अथास्य सन्ध्यासमये, पयोऽभ्येति मुखे मुहुः । गुरुभ्यो विभ्यन्नाख्याति, निष्ठीव्यति भृशं तु सः॥ ३८७ ॥ आचार्यास्तं तथा वीक्ष्य, पप्रच्छुर्वत्स ! किं न्विदम् ? । प्रभो ! किमपि नो वेद्मि, पयोऽभ्येतीति सोऽवदत् ॥३८॥ इदानीं तर्हि माध्येष्ठा, गत्वा स्वपिहि निर्भरम् । आचार्य स्त्रयमित्युक्तः, सुष्वाप स लघुमुनिः ॥ ३८६ ॥ प्रतिक्रम्य स्वाध्यायान्ते, सुषुप्सति यतिबजे । चक्र विश्रामणां साधुः, सरित्पुत्रस्तपोभृताम् ॥ ३६॥ आबालवृद्धसाधूनां, कुर्वन् विश्रामणां ततः । सैष संवाहनार्थ तं, बालं साधुमुपागमत् ॥३६१॥ व्यन्तराधिष्ठितः सोऽथ, वालर्षिः प्राह तं मुनिम् । बाढं स्फुटति मे गात्रं, तत्संवाहय मां दृढम् ॥ ३६२॥ इच्छामीति भणित्वाऽसौ, सरित्पुत्रमुनिस्ततः । संवाहयितुमारेभे, महाप्राणेन तं लघुम् ॥ ३६३ ॥ शिरः पादौ भुजावंशी, जो ऊरू च जानुनी । पृथग् मर्दयतस्तस्य, निशीथसमयोऽभवत् ॥ ३६४ ॥ सुप्तास्ते साधवः केचिजाग्रत्येके यथाविधि । अनुद्विग्नस्तथैवास्थाद्वालर्षि मर्दयन्नसौ ॥ ३६५॥ अथाह तं स बालर्षिह दि मेऽम्भश्चटत्यथ । पृष्टिं निष्ठुरपाणिभ्यां, साधो ! सम्भावयाधुना ॥ ३६६ ॥ ॥११७॥ |॥११७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy