________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः | परिच्छेदः
अजापुत्रकन थान्तर्गता
हरिषेणश्रीषेणकथा
देशनाम्बुभिरुत्पूरभूपचित्तालवालकात् । आनन्दाश्रुमिषादक्षियन्त्रेणोर्ध्वमगात्पयः ॥ ३७० ॥ आचार्यदेशनोत्फुल्लसंवेगोत्कलिकां दधत् । तदैव मूरिपादान्ते, प्रव्रज्यामग्रहीन्नृपः ॥ ३७१ ॥ तप्यमानस्तपस्तीवमधीयन् श्रुतमादरात् । सहाचार्यैर्व्यहार्षीत् स, सहमानः परीपहान् ॥ ३७२ ॥ अधीती सर्वसिद्धान्ते, विदिती यतिकर्मसु । आश्रिती विनये चाथ, गीतार्थोऽभूत्सरित्सुतः ।। ३७३ ॥ विनयः शासने मूलमिति निश्चित्य चेतसा । महात्मा स मुनिः मूरिपा प्रत्यशृणोदिति ॥ ३७४ ॥ अतः प्रभृति साधूनां, पठतां जरतां तथा । तपस्यता ग्लानिमता, विधेयो विनयो मया ॥ ३७५ ॥ स्मरन्नप्यात्मनोऽष्टाङ्गप्रणताशेषभूपतेः । स आद्यदिनवच्चक्रे, यतीनां विनयं सदा ॥ ३७६ ॥ यतः
दानादयो जपतपःप्रमुखा गुणा वा, सन्तोऽप्यसन्त इव ते विनयेन हीनाः ।
नैवाङ्गनावपुषि कङ्कणकर्णपूरके यूरहारवलयैघु मृणादिना श्रीः ॥ ३७७ ॥ आचार्यसाधवोऽन्येऽपि, तद्वैनयिककर्मणा । सुखिनः सन्ति सिद्धान्तपाठादिष्वेकचेतसः ।। ३७८ ॥ अन्यदा व्यन्तरः कोऽपि, मिथ्यादृष्टिः सरित्सुतम् । आसक्तं विनये वीक्ष्य, तत्परीक्षा व्यधादिति ॥ ३७६ ॥ स क्र रव्यन्तरः श्राद्धीभूय नत्वा यथाविधि । आचार्यान् वतिनोऽथैकं, बालं साधुमवन्दत ॥ ३८० ॥ पाठव्यग्रः स बालर्षिधर्मलाभं ददौ नहि । सोऽथ कोपादिवोचे तं, धर्मलाभं ददासि न? ॥ ३८१॥ प्रत्यभाषिष्ट बालोऽपि, साधुश्रावक ! मा कुपः । मूर्खत्वादेकचित्तेनोद्घपन्न त्वां व्यलोकयम् ॥ ३८२॥
॥११६॥
| ॥११६॥