________________
चन्द्रप्रमस्वामि
प्रथम: परिच्छेदः
चरित्रम्
अजापुत्रकथान्तर्गता हरिषेणश्रोषेणकथा
तदलं मे कुटुम्बायैस्तत्स्नेहो वाससीव यत् । आत्मन्यत्युज्ज्वले लग्नो, रजोवन्धनिबन्धनम् ॥ ३५७ ।। इति वैराग्यपूरेण, व्रताम्भोध्यनुयायिना । त्याजितात्मपदस्थानो, राजामात्यानथाब्रवीत् ॥ ३५॥ भो ! भो । मूलक्रमायाता, मन्त्रिणः श्रूयतां वचः । नरकार्तिफलेनालं, राज्येन मम सम्प्रति ॥ ३५६ ॥ यद्येष जीवति भ्राता, हरिषेणो ममाग्रजः । तदास्मै दीयतां राज्यमन्यथा मत्सुताय तु ॥ ३६०॥ ब्रवन्नेतत्परित्यज्य, सतीं तां राज्यसम्पदम् । भ्रातर्यपि तथावस्थे, सर्वथापि हि निर्ममः॥ ३६१॥ कुर्वनान्तःपुरं चित्ते, स्निह्यन्नैव सुतेष्वपि । असंस्तुत इवात्मीयवल्लभानप्यनालपन् ॥ ३६२ ॥ लेप्यरूपमिवाश्वीयहास्तिकं गणयन्नथ । प्रत्यरीन विस्मरत्कोपं, स्मरमात्मानमात्मना ॥ ३६३॥ ऊर्ध्व वाहौ रुदत्येव, तस्मिन् राजपरिग्रहे । ज्वलत इवात्मसैन्यान् , निस्ससार सरित्सुतः ॥ ३६४ ॥ कुलकम् ॥ त्यक्तराज्यभार इव, लघु गच्छन्नतुच्छधीः । कस्मिंश्चिद्धहिरुद्याने, विवेश स महीपतिः ॥ ३६५ ॥ दयादिभिर्धर्ममिव, यतिभिः परितो वृतम् । श्रीवईमाननामानं, तत्राचार्य ददर्श सः॥३६६ ॥ कटरे गुरुसंयोगः संविनस्य ममाऽभवत् । ध्यायन्निति तमाचार्यमुपेत्य प्रणनाम सः ॥ ३६७॥ स्वयं संविनमुत्प्रेक्ष्य, भूपमाचार्य पुङ्गवः । तन्मनोद्रुसुधाकुल्यामारेमे धर्मदेशनाम् ।। ३६८ ॥ चेतःप्रेतसमं न मङ्गलशतान्यासादयत्तप्यति, प्रायः कायकुटी घटीव लकुटै रोगर्भवेज्जर्जरा । गृद्धिः सिद्धिहरी दरीव तमसा चक्षुः परं मोहयत्यायुर्वायुचलं कलङ्कयति भो! जीवं मुहुर्जन्मभिः ॥ ३६॥
॥११॥
॥११॥