________________
चन्द्रप्रभस्वामि चरित्रम्
॥११३॥
भ्रातुर्वियोगसन्धार्त्तो, नाभ्यागात्वां पुरात्पुरा । दृष्टस्वभ्रातुकं सम्प्रत्यायातं पश्य भूपतिम् ॥ ३२६ ॥ यदि ते कुपितं दैवं, तद्योद्धु ं प्रगुणीभव । पूर्ववन्नाधुनाप्येष सोढा त्वद्दुर्नयान् खलु ॥ ३३० ॥ श्रुति दूतवाक्यानि तं प्रत्यकृतमत्सरः । हरिषेणश्चुकोपाथ, सरित्पुत्राय सिंहवत् ॥ ३३१ ॥ अधिसङ्गरमभ्येत्य, शिरश्छेत्स्यामि ते विभोः । उच्चैरुक्त्वेति सत्कृत्य, दूतं सोऽथ व्यसर्जयत् ॥ ३३२ ॥ ज्वलन्नग्रेऽपि वैलक्ष्याद्द्द्तेनोत्तेजितः पुनः । आदिशत्सैष राजन्यान् द्रुतं सन्नद्यतामिति ॥ ३३३ ॥ एतैस्तथा कृते स्नात्वा, निजामभ्यर्च्य देवताम् । हरिषेणः समारोहदैरावणमिव द्विपम् ॥ ३३४ ॥ वादिते रणतूर्ये च, वीरेषूद्गतरोमसु । प्रावर्तत महायुद्धं द्वयोर्नासीरयोस्तयोः ॥ ३३५ ॥ अन्योन्यं हन्यमानेषु, सुभटेषु बहुष्वथ । हरिषेणस्य सैन्यं तत्, प्रतिवीर रभज्यत ।। ३३६ ॥ जीवानादाय नश्यत्सु राजन्येषु निजेषु सः । हरिषेणः स्वयं योद्धुमारेभे रिपुभिः सह ॥ ३३७ ॥ सरित्पुत्रस्य सैन्येन, वर्द्धिष्णूत्साहशालिना । घूकबत्काकयूथेन, हरिषेणस्त्ववेष्टयत ॥ ३३८ ॥ गाङ्कस्तथाप्येष, कुर्वाणो युद्धमद्भुतम् । आहतो हृदि वाणेन, सरित्पुत्रपदातिना ॥ ३३९ ॥ तेन वाणप्रहारेण, छिन्नो मर्मणि कुञ्जरात्। पतितोऽथा रिसैन्यैस्तैरुत्पाट्यानीयते स्म सः ।। ३४० ॥ मुक्तश्च सरित्पुत्रस्य पुरतो मूच्छितः स तैः । मद्भ्राता हरिषेणोऽयमित्युपलक्ष्यत्स तम् ॥ ३४९ ॥ अरे ! पयः पयः शीतं, व्यजनं व्यजनं तथा । ब्रुवन्नेतत्पटान्तेन, नृपं वीजयति स्वयम् ॥
३४२ ॥
प्रथमः
परिच्छेदः
अजापुत्रक| थान्तर्गता हरिषेणश्रीषेणकथा
॥११३॥