SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेद: चरित्रम् अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा ON इति मत्प्रतिज्ञा श्रुत्वा, द्विषश्छलविलोकिनः । अरौत्सुमत्पुरीमेते, मय्यन्तः सति राजनि ॥ ३०१॥ सन्धानिगडितत्वेनानभ्यमित्रेऽधुना मयि । देवि ! प्रसीद पूर्लोक, पाहि द्विषदुपद्रवात् ॥ ३०२ ।। अथ राज्यप्रदा प्रोचे, वत्साकर्णय मगिरः । मया प्रदत्तराज्यस्याज्ञासिद्धस्य बलं ह्यदः ॥३०३॥ स्मरति स द्वितीयस्ते, मत्प्रासादे तदागतः । दृष्टिविषोरगातङ्कान्नष्वागावृद्धया सह ॥ ३०४ ॥ त्वयाऽथ मारिते सपें, तत्रोपद्रवकारिणि । पूर्ववद्वसति द्वीपे, पुनर्दीपोत्सवोऽभवत् ॥ ३०५॥ तपत्त्रपुणि कुण्डेऽथ, झम्पा त्वमिव सोऽप्यदात । साहसात्तस्य राज्यं च, स्वर्णद्वीपे ददे मया ॥ ३०६॥ यथा तव तथा तस्य, राज्यदास्म्यहमेव हि । कथमुच्छेत्तुमर्हामि, राजंस्त्वमिव तद्बलम् ॥ ३०७॥ जगादाथ सरित्पुत्रो, देवि ! दर्शय मेऽद्भुतम् । मदीयं भ्रातरं पश्चादुच्छेत्स्यामि स्वयं रिपून् ॥ ३०८।। उवाच देवता राजनिदानीमुत्सुकास्म्यहम् । अष्टापदगिरौ द्रष्टुं, चरणानहें तां ततः ।। ३०६ ॥ साङ्गोपाङ्ग निजभ्रातृरूपं क्वापि त्वमालिख । अस्यानुसारात्तं वीक्ष्यानेष्यन्ति मम किङ्कराः॥३१०॥ ततो राज्यप्रदादिश्य, तमर्थ व्यन्तरान्निजान् । जगामाष्टापदे तेभ्यस्तथा कृत्वापयन्नृपः ॥३११॥ बहिःस्थं वेत्ति तं देवी, परं नाकथयत्स्वयम । क्रीडया वा तयोयुद्धं, द्रष्टुं वा भावि वीक्ष्य वा ॥ ३१२॥ व्यन्तराः पटमादाय, भ्र मुः सर्वत्र मेदिनीम् । नाद्राक्षः पुरुषं कश्चित्पटरूपानुयायिनम् ॥ ३१३॥ व्यन्तरास्तमपश्यन्तो, निवृत्तास्ता पुरी प्रति । नृपारिसैन्ये पल्यङ्कसुप्तं तं ददृशुनिशि ॥ ३१४ ॥ ॥११॥ ॥११॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy