SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रक| थान्तर्गता हरिषेणश्रीषेणकथा पुरीलोकस्तथा नाथाक्रन्दत्येवातिरोधतः । गोकुलं च यतो नान्तरस्तीह प्रचुरं पयः॥२८७ ॥ श्रत्वेति प्रसरत्कोपकम्पमानाधरो नृपः । आदिशद्वप्रयन्त्राणि, ततो वाहयितु नरान् ॥ २८८॥ अथ गोपुरद्वारेषु, व्यलब्ध मण्डलेश्वरान् । वप्रे चानपराद्धेषून् , धानुष्कानध्यरोपयत् ॥ २८६ ॥ अहंयुत्वात्तथोपात्तबहिर्गतिनिषेधतः । सौध एव स्थितो राजा, पुरीरक्षापरोऽभवत् ॥ २६ ॥ प्राकारस्थवहिःस्थानां, भटानामितरेतरम् । ततश्चाभूद्विधा युद्धं, यन्त्रायन्त्रि शराशरि ॥ २६१ ॥ वप्रयन्त्रप्रतीकार, विधाप्य सुभटान् निजान् । प्राहिणोद्वप्रपाताय, हरिषेणः स्वयं पुनः ॥२६२॥ प्राकारस्थान् शरासारस्ताडयामास तांस्ततः । लब्धेऽस्मिन्नन्तरे शूरा, वप्रपाते डुढौकिरे ॥ २६३॥ चतुर्दिक्षु प्रतोलीषु, निजं बलमढौकयत् । शूराणां क्षिप्रकारित्वं, कार्मणं विजयश्रियः ।। २६४॥ ततश्चालब्धप्रसरा, धीरा अपि भयस्पृशः । प्राकाराधिकृता राजे, तत्स्वरूपं व्यजिज्ञपन् ॥ २६५॥ तदैव च पुरीलोको, ज्ञात्वा ढोकं पुरीं प्रति । सम्भूयागत्य निर्भीकश्चक्रोश नृपमुच्चकैः ॥ २॥६॥ ततो वीक्ष्य पुरीलोकं, रुदन्तं सर्वतस्तथा । ज्ञात्वारिबलभूयस्त्वं, प्रतिज्ञा स्वां विचिन्त्य च ॥ २६७ ॥ क्षीणाऽन्यसकलोपायः, सरित्पुत्रनृपोऽस्मरत् । वरेणैकेनाधमर्णा, देवीं राज्यप्रदां ततः ॥२६८॥ युग्मम् स्मृतमात्रैव सा देवी, समेत्य नृपतेः पुरः । बभाषे वत्स ! ब्रूहि त्वं, सञ्जास्मि करवाणि किम् ? ॥२६६ ॥ सरित्पुत्रस्ततः प्रोचे, देवी प्रति कृताञ्जलिः । स्वभ्रातरं यदा द्रक्ष्ये, तदा यास्याम्यहं बहिः॥३०॥ ॥११०॥ ॥११०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy