________________
चन्द्रप्रभस्वामि
प्रथम: | परिच्छेद:
चरित्रम्
अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा।
पुरुषीभूतयक्षोऽथ, स्नेहात्तमभिषस्वजे । आलपच्च महाभाग !, कथमित्थं विडम्बना १॥ २५ ॥ ततः क्षामाक्षरं तस्मै, हरिषेणो न्यवेदयत् । समस्तमात्मवृत्तान्तं, स्थित्वा स्थित्वा पावशात् ॥ २६॥ यक्षोऽथ प्रत्यभाषिष्ट, हरिषेणं विषादभाक् । मया कुस्वामिना यस्ते, कृतोऽनर्थः क्षमस्व तत् ॥ २६१ ।। अथोचे हरिषेणोऽपि, यक्षराज ! तवाधुना । रक्षतो मार्यमाणं मां, स्वामिता सफलाभवत् ॥ २६२ ॥ नागस्याग्रे प्रपन्नं यत् , तदकुर्वन्नहं वचः । खद्दत्तजीवितं मन्ये, मृत्योरुपरि चूलिकाम् ॥ २६३ ।। सावष्टम्भं पुनयक्षो, हरिषेणं जगाद सः । मा विषीद प्रतिज्ञा ते, विधास्ये सफलां खलु ॥ २६४ ।। पप्रच्छ हरिषेणस्तं, कुत्रापि दृष्टवानसि १ । लघु मे भ्रातरं यक्ष, प्रत्यवोचन्न कुत्रचित् ॥ २६५ ॥ अदत्तविभङ्गज्ञानोपयोगो यक्षराडसौ। पुरीस्थमपि नाज्ञासीच्छीषेणमन्यथाभिधम् ॥ २६६ ॥
इतश्च दत्तसङ्केतः, स नागो वटकोटरात् । नृपस्य घातकोऽभूदित्याकर्ण्य स्वाश्रयं ययौ ॥ २६७ ॥ श्रीषेणं तत्र राजानमविद्वान् यक्षराडथ । हरिषेणयुतोऽचालीक्वाप्येनं वीक्षितु ततः ॥ २६८ ॥ अविद्यमानत्वात्ताभ्यां, श्रीषेणः क्वाप्यदर्शिन । स्वर्गद्वीपमुपेत्याह, हरिषेणं स यक्षराट ।। २६६ ।। त्वत्प्रतिज्ञार्थमाधातुं, पुरस्यास्य महीपतेः । ग्रहीष्यामि सुतं पश्चान्न मोक्षाम्यन्यमान्त्रिकैः ।। २७० ॥ राज्ञा पुत्रग्रहात्तेन, वादितं डिण्डिमं स्पृशेः। मुञ्चन् हुङ्कारमागच्छनिर्भीनू पसुतान्तिकम् ॥ २७१ ॥ त्वत्तो विभ्यदिवात्यर्थ, मोक्ष्ये राजसुतं ततः। यथा त्वत्सन्धा पूर्णा स्यात्तथा याचेनृपाद्वरम् ॥ २७२ ॥
॥१०॥
K
॥१०८॥