SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥१०७॥ पापे ! स्वेनार्जितस्य त्वं, कर्मणः फलमाप्नुहि । इत्युक्त्वा प्राकर्णी छेत्तु, कपोले स करं न्यधात् || २४५ ।। मुण्डितत्वात् कचस्तम्बास्तीक्ष्णास्तस्य करेऽलगन् । कथं कूर्चमिवैतस्या, इत्यसौ परितोऽस्पृशत् ॥ २४६ ॥ कपोलस्पर्शतः कूचं, ज्ञात्वोचे सौनिको भयात् । अरेरे ! 11 धियतां, गाढं, यत् पुमानेष नावला ॥ २४७ ॥ अस्माकं भूपतिं हन्तु कृतस्त्रीवेषकैतवम् । दुरात्मानममु ं बद्ध्वा, छिन्तेत्युच्चैरुवाच सः ॥ २४८ ॥ बद्धे च तस्मिन् श्वपचैर्निष्कृपः सौनिकोऽवदत् । अहो ! नर ! स्मरत्वं हि किमपीष्टं स्वदैवतम् १ ॥ २४६ ॥ अस्माभिः स्त्रीभ्रमेण त्वं नासि बद्धो नवा हतः । ज्ञातंपु स्त्वोऽधुना त्वं हि यक्षस्याग्रे समाप्यसे ॥ २५० ॥ हरिषेणस्तमृचेऽथ, सावष्टम्भं निरस्तभीः । दैवात् समागते मृत्यौ, स्मृतः कः किं करिष्यति १ ।। २५१ ॥ प्रथमं छिन्धि मे हस्तं यद् घातो नाऽलगन्नृपे । पश्चात् कुरु यथाभीष्टं, यक्षाग्रे सौनिक ! द्रुतम् ॥ २५२ ।। इत्युक्तो हरिषेणेन, किलासौ प्रहरिष्यति । विज्ञाय हरिषेणं तु, यक्षो मा मेत्यभाषत ॥ २५३ ॥ मत्प्रतिचारको ह्यं ष, हरिषेणाभिधस्ततः । किमेवं हन्तुमारेभे, रे चाण्डाल ! ममाग्रतः १ ॥ २५४ ॥ एतस्यैव हि शुद्धयर्थ, देशाद्देशं भ्रमाम्यहम् । मत्प्रमादादहो ! प्राप, दुर्दशामयमीदृशीम् ॥ २५५ ।। इति पुम्भूतयक्षोक्ताश्चाण्डालाः कृतभीतयः । ते सर्वेऽपि पलायन्त, सिंहनादादिव द्विपाः ॥ २५६ ॥ ततश्च हरिषेणस्य, बन्धा यक्षप्रभावतः । सुबद्धा अप्यत्रुट्यन्त, त्रटत्त्रटदिति स्वयम् ॥ २५७ ॥ किमेष स एवाहोऽयं, १ यक्षो यः सेवितः पुरा । इति ज्ञात्वा हरिषेणस्तस्थौ नीचैष्कृताननः ॥ २५८ ॥ प्रथमः परिच्छेदः अजापुत्रक. थान्तर्गता हरिषेणश्रीषेणकथा । ॥१०७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy