________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रक थान्तर्गताहरिषेणश्रीषेणकथा।
हरिषेणस्ततः प्राह, किमर्थ सैष भूपतिः१। महाशीते पतत्यस्मिन् , सचेलं स्नाति निश्चयात् ॥ २१७ ॥ भुजिष्याऽख्यन्न चेद्वष, प्रत्यत्र स्नाति यो नृपः । माघमासाष्टमीरात्रौ, घातकेन स मायते ॥ २१८॥ अहंयुत्वादविहितस्नानस्त्वग्रेतनो नृपः । अनेन प्रहतो राज्ञा, स्वयं राज्यमलङ्कृतम् ॥ २१६ ॥ ततः प्रत्ययितो राजा, स्नात्येवैष स्थिते दिने । शूरा अपि पुमांसो यद्देवतां प्रति कातराः ॥ २२० । अथासौ सभयो दध्यौ, हरिषेणः कथं नृपः । यथाविधिकृतस्नानो, घातकेन न मार्यते ॥ २२१॥ सावष्टम्भं पुनर्दध्यौ, दृष्टश्चेच्चक्षुषा नृपः । तदा दैवमपि क्लीवं, मत्तस्तं रक्षितुं खलु ।। २२२ ॥ साधूपायस्त्वयाऽदर्शि, प्रिये ! भूपतिदर्शने । सन्ध्यायामद्य मे तन्त्रि ! पूर्णीभवतु कौतुकम् ।। २२३ ॥ ततः सान्तःपुरे राज्ञि, सरित्तीर्थमुपेयुषि । स्त्रीवेषहरिषेणेन, युक्तागात्तत्र दास्यपि ॥ २२४ ।। हरिषेणोऽपि गूढं च, कटीनिक्षिप्तशस्त्रिकः । गत्याऽथ वचसा स्त्रीवदासीपृष्ठगतोऽभ्रमत् ॥ २२५ ॥ अथाङ्गरक्षका दूरे, चिक्षिषुः पुरुषव्रजम् । स्वयं चास्थुदैवीयांसस्ततो देवीयुतो नृपः ॥ २२६ ॥ अस्नाद्राज्यकृताचारपरतन्त्रः सरिजले । देवतां च नमस्कत, प्राविक्षद्देवतौकसि ॥ २२७॥ युग्मम् ॥ पुरैव देवीवेश्मान्तःप्रविष्टेन दुरात्मना । दासीति राज्ञानुक्तेन, हरिषेणेन दुर्धिया ।। २२८ ॥ देवीं प्रत्यानतमध्नों, राज्ञः प्रविशतस्ततः । भ्रातेत्यजानताऽमोचि, प्रहारः कन्धरां प्रति ॥ २२६ ।। युग्मम् ॥ राज्ञः पुण्यात्प्रहारोऽस्य, प्रास्खलद्वारदारुणि । राजा च तत्क्षणादेव, व्याघुट्यागाद्भयावहिः ।। २३० ॥
॥१०॥
॥१०॥