________________
चन्द्रप्रभ-IN स्वामि
प्रथम: परिच्छेदः
चरित्रम्
अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा।
गत्वा च रङ्गशालायां, बहिःस्थे वटभूरुहि । क्षणं विश्रम्य तं प्रोचे, हरिषेणो भुजङ्गमम् ॥ २०३ ॥ नागराज ! त्वमेतं हि, वटकोटरमाश्रय। प्रविश्याहं पुरी राज्ञो, घातोपायान् विलोकये ॥ २०४॥ राज्ञो व्यापादनं श्रुत्वा, गच्छेस्त्वं स्थानमात्मनः । दैवात्तु मारिते राज्ञि, ममाप्यस्ति न जीवितम् ॥ २०५ ।। एवमस्त्विति सोक्ते, हरिषेणोऽविशत् पुरोम् । स द्यूतक्रीडया स्वस्य, प्राणवृत्तिं करोत्यथ । २०६॥ प्रत्यहं वीक्ष्यते चैष, घातोपायान् महीपतेः । न च प्राप स्थलं किश्चिद्राज्ञो मृत्युभवेद्यतः । २०७।। ततो दध्यौ मनस्येष, हहा !! मे वचनक्षतिः । अहेरग्रे प्रतिज्ञातं, करोम्यद्यापि नैव यत् ॥ २०८ ॥ दिनानामियां मध्ये, मया दृष्टोपि नो नृपः । नैष याति बहिर्नाहं, गन्तुमीशस्तदन्तिकम् ॥ २०६ ।। युग्मम् ॥ अथान्यदा नृपासन्नचरी दासी स कामपि । तवाहं कामुकोऽस्मीति, प्रेम्णेवोपचचार ताम् ॥ २१० ॥ पत्रकुकुमवस्त्रादि, मायया तस्य यच्छतः । पत्नीत्वमभजदासी, दानाकि न भवत्यहो! १॥ २११ ॥ गच्छन्ती नित्यशो राजवेश्मन्यस्खलितामिमाम् । हरिषेणोऽन्यदेकान्ते, सकौतुकमिवावदत् ॥ २१२॥ अपूर्वत्वान्नृपं द्रष्टुं, प्रियेऽस्ति मम कौतुकम् । तत्त्वं केनाप्युपायेन, मम दर्शय भूपतिम् ।। २१३ ॥ दास्यूचे तमुपायोऽस्ति, साधुभू पतिदर्शने । यास्यत्ययैव सन्ध्यायां, नद्यां सान्तःपुरो नृपः ॥ २१४॥ तत्र स्नात्वा सचेलं च, सरित्तीरस्थितां श्रियम् । प्रणस्यति नृपो राज्ञी, चावृतनव्यवाससौ ॥ २१५॥ न कोऽपि हि पुमांस्तत्र, प्रवेशं लप्स्यते प्रिय ! । अतस्त्वं कृतस्त्रीवेषश्चल तत्र मया सह ॥ २१६ ॥
॥१०४॥