________________
चन्द्रप्रभस्वामि चरित्रम्
॥१०३॥
भुजङ्गः प्रत्यभाषिष्ट, दृष्ट्वा त्वां विषमृच्छितम् । कारुण्यादनयोषध्योदस्थापयमहं ततः ॥ १८६॥ हरिषेणस्तमाचष्ट, किं करोमि प्रियं तव १ ! प्रत्यूचेऽहिरलम्भूष्णुर्न कर्तुं कोऽपि मत्प्रियम् ॥ १६० ॥ तथापि कथयाश्वेवं, हरिषेणोदिते ततः । स प्राह मत्पिता दृष्टिविषाख्यो निजविद्यया ॥ १६१ ॥ सर्पीभूयाथ सर्वत्र, क्रीडन् व्यापादितश्छलात् । सिंहलद्वीपभूपेनानुकृतान्तिकमूर्तिना ॥ १६२ ॥ युग्मम् ॥ पुण्यानि तु कथञ्चनापि नास्म्यलम् । ततोऽशक्यप्रतीकारं, पितृवैरं दुनोति माम् ॥ १६३ ॥ क्व कथं त्वत्पिता तेनाघानीति प्रश्नितेऽमुना १ । प्राहाहिर्मत्पितुर्मेध्यमासीच्छे पाहिना सह ॥ १६४ ॥ अन्यदा स्मितवक्तं तं वीक्ष्य पप्रच्छ मत्पिता । हास्ये को हेतुराहैप, हा ! कीदृग् भवितव्यता ? ॥ १६५ ॥ दृष्टया दग्धु ं जगच्छक्तस्त्वमित्थं सर्परूपधृत् । राज्यप्रदायाः प्रासादे, नरेण तु हनिष्यसे ॥ १६६ ॥ श्रुत्वेति मत्पिता दृष्टाऽधाक्षीद्राज्यप्रदां पुरीम् । अन्यदा निःसरन् भूमेः, सर्पीभूतो हतोऽमुना ॥ १६७ ॥ इति निशम्य प्रत्युपकारचिकी : प्रमोदभाक् । हरिषेणोऽब्रवीदल्पे, कर्तव्येऽस्मिन्विषीद मा ॥ १६८ ॥ महानाग ! मया सैष, पितृवैरी तव ध्रुवम् । व्यापाद्यः किन्तु दूरत्वात्तत्राहं गन्तुमक्षमः ॥ १६६ ॥ अहिः प्राह यदि त्वं मे, सत्यं प्रत्युपकारकः । ततस्त्वां तत्र नेष्यामि, नेदीयसा पथा खलु ॥ २०० ॥ वचस्यङ्गीकृतेऽमुष्मिन्, हरिषेणस्ततोऽहिना । सिंहलद्वीपगामिन्यां, सुरङ्गायामनीयत ॥ २०१ ॥ अग्रेऽहिः पृष्ठतः सैंप, हरिषेणः सुरङ्गया । स्वल्पैरेव दिनैद्वीपं सिंहलं प्रापतुश्च तौ ॥ २०२ ॥
प्रथमः
परिच्छेदः
अजापुत्रक. थान्तर्गता हरिषेणश्रीपेणकथा ।
॥१०३॥