SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ १०१ ॥ तदैवाकारयामासुरमात्यप्रभृतीनिमाः । तैर्ज्ञातस्त्ररूपै राज्ये, श्रीषेणोऽस्थाप्यत स्वयम् ॥ १६१ ॥ योsa राजा भवेत्तस्य नाम स्यात्तु सरित्सुतः । श्रीषेणमिति विज्ञप्यास्थापयंस्तस्य नाम तत् ॥ १६२ ॥ सरित्पुत्रस्ततः प्रातरुदयाचलमर्कवत् । सिंहासनमलंकृत्याज्ञापयामास पूर्जनम् ॥ १६३ ॥ आज्ञापयति वः पौरा !, राजायं सरितः सुतः । राज्याप्तिमङ्गले यूयं पूः शोभां कुरुत द्रुतम् ॥ १६४ ॥ ततो नगरशोभायां कृतायामथ भूपतिः । पट्टकुञ्जरमारूढः, सोऽकार्षीद्राजपाटिकाम् ॥ १६५ ॥ अथासौ प्रधाने लग्नळे, सर्वास्ता राजपुत्रिकाः । चित्तेन परिणीताः प्रागुपयेमे पुनर्नृपः ॥ १६६ ॥ रममाणः समं ताभिस्ताराभिवि चन्द्रमाः । शक्रवन्न्यायवानेष, प्रजाः पाति सरित्सुतः ॥ १६७ ॥ व्यग्रः समग्रराजन्योत्थापनस्थापनादिभिः । सर्वथा भ्रातरं ज्येष्ठं, विसस्मार सरित्सुतः ॥ १६८ ॥ अथ सांयात्रिकाः केचित् प्रभूतार्जितभूतयः । रत्नस्थालयुतं खड्गमुपानिन्युर्महीपतेः ॥ १६६ ॥ शस्त्रप्रियत्वाद्राजापि, खड्गमादाय वेगतः । आचकर्ष प्रती (त्या) कारें, वीक्षितुं तस्य सारताम् ॥ १७० ॥ हरिषेणस्य मद्भ्रातुरयमित्युपलक्ष्य तं । युष्माभिरवाप्तः क्वासौ, राजा तानब्रवीदिति १ ॥ १७१ ॥ कम्पमानशरीरास्ते, प्रोचुः प्रस्खलिताक्षरम् । नृपास्माभिर्गुरुप्रायैर्मजन् भव इवाम्बुधौ ॥ १७२ ॥ पोतेनोपदेशेनेव तत्पारं प्रापितः पुमान् । ततोऽस्माकं कृतज्ञेन तेनायमातरीकृतः ॥ १७३ ॥ युग्मम् ॥ सम्भ्रमात्प्राह भूपोऽपि गतः क्वासौ ततः परम् १ | ते कृताञ्जलयोऽथाख्यन्, न विद्योतः परं कथाम् ॥ १७४ ॥ , प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता हरिषेणश्री षेणकथा । ॥१०१॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy