SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमः चन्द्रप्रमस्वामि | परिच्छेदः चरित्रम् अजापुत्रक थान्तर्गताहरिषेणश्रीषेणकथा। देवतावाक् प्रमाणेन, कुतश्चिदपि कोऽपि हि । एत्यधुना नृपं हत्वा, राज्यमेतद्ग्रहीष्यति ॥ १४७॥ अथोचे प्रथमा नैव, शक्यो मारयितुं खलु । विना हस्त्यादिसेनां स, शूरेणापि हि भूपतिः ॥ १४८॥ द्वितीयोचे न जानासि, राजा स्त्रीलम्पटो ह्यसौ । निशायामेककः पुर्या, परिभ्राम्यति सर्वतः ॥ १४६ ॥ किश्च दृष्टिविषं सर्प, यो हि व्यापाद्य तत्क्षणात् । तपत्त्रपुणि कुण्डेऽस्नात्तस्यासाध्यं हि किं सखि ! १ ॥१५० ॥ तदेहि समयस्तस्येदानीमागमनाय यत् । किश्चान्धकारपटकं, प्रावृत्याभ्येति भूपतिः ॥ ११ ॥ सम्भाव्यमधुना किञ्चिन्नूनमेकाकिभूपतेः । मा च पश्यत्वसावावामित्युक्या जग्मतुश्च ते ॥ १५२॥ श्रीषेणस्तु स्ववृत्तान्तमाकानन्दमावहन् । नृपं चासन्नमालोक्य, निपत्यास्थात् क्षणं भुवि ॥ १५३ ॥ राजा च विगताशङ्को, ययौ तदन्तिकाध्वना । श्रीषेणोऽथ समुत्थाय, दूरस्थो नृपमन्वगात् ॥ १५४ ॥ देवेनान्धीकृत इवापश्यंस्तं पृष्ठगं नृपः। पुरा सङ्केतितैास्थैरनुक्तः सौधमाविशत् ॥ १५५ ॥ नृपासनचरो भावी, नूनमेष पुमानिति । श्रीषेणोऽपि ह्यनुक्तस्तै भाजी मेष शानिति । श्रीपेणोऽपि वनक्तस्तै पमन्त्रविशत्ततः ॥१५॥ गृहाण शस्त्रं भो ! राजन्नेष नो भवसि ध्रुवम् । श्रीषेणोऽथ ब्रुवन्नेवं, शिरश्चिच्छेद भूपतेः ॥ १५७ ॥ जय त्वं कुरु राज्यं त्वं, कुमारीणां पतिभव । इति लोकस्य प्रत्यक्षमन्तरिक्ष वचोऽभवत् ॥ १५८॥ दैवतं तद्वचः श्रुत्वा, कुमार्यः सपरिच्छदाः । निवारयन्त्यस्तुमुलं, समीयुः खेदहर्षतः ॥ १५६ ॥ ततः स्वयंवरमाला, कण्ठपीठेऽस्य चिक्षिपुः । राज्यश्रिय इवैतास्तु, पुलकाङ्कुरमेदुराः ॥ १६० ॥ ॥१०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy