________________
चन्द्रप्रभस्वामि
चरित्रम्
देवताथ विभङ्गन, ज्ञानेन तद्विजानती। प्राह हो!! धीरोत्तंस !, स्वयं तत्रास्ति कौशलम् ॥ ११ ॥
प्रथमः तवृणीष्व परं किश्चिद्वराभ्यां सत्त्वमन्दिर ! । तवोपकारसत्त्वाभ्या, तुष्टास्मि दातुमुद्यता ॥ १२० ॥
परिच्छेदः श्रीपेणोथ विमृश्य कवरेण सोऽवृणोदिति । सङ्गीतकामिनीयुक्तं, महत्साम्राज्यमस्तु मे ॥ १२१ ॥ दुःसाध्ये क्वापि कार्ये त्वां, यदा देवि ! स्मराम्यहम् । आगच्छेस्त्वं तदा क्षिप्रमित्यस्तु मेऽपरो वरः ॥१२२ ।। युग्मम् ॥ एवमस्त्विति मत्वा सा, तिरोभूताऽथ देवता । श्रीषेणोऽपि च तन्मृत्ति, प्रणम्य निरगावहिः ॥ १२३ ॥
अजापुत्रक
थान्तर्गता क्व मे सखायं सम्भाव्यः १, श्रीषेणश्चिन्तयन्निति । बभ्राम परितस्तत्र, कुन शब्दं च तं प्रति ॥ १२४ ॥
हरिषेणश्रीकुतश्चिदपि नाऽयासीत् , स पुरुषो गतासुवत् । हहा !! क्कायमिति ध्यात्वा, सैष खड्गसखोऽचलत् ॥ १२५॥ षेणकथा। विना तामौषधीं क्लीबः, श्रीषेणो गन्तुमम्भसि । निकषाब्धितीरं काश्चिद्दिशमुद्दिश्य जग्मिवान् ।। १२६ ।। देव्याऽपि हि दुरुच्छेद, सर्प हत्वा वृतो वरः । त्यक्तस्वभ्रातृशुश्रूषं, न मां सुखाकरोत्यसौ ॥ १७ ॥ इत्यन्त खेदमापन्नः, श्रीषेणस्त्वरितं वजन् । ददर्श लहरीलोलं, विदूरे यक्षवेश्म तत् ॥ १२८॥ यानपात्रमिदं किञ्चिदायाति मम सम्मुखम् । तत्. प्रतिपालयाम्येतदित्यस्थाच एव सः ॥ १२९॥ क्रमेण घूर्णमानं च, भूताधिष्ठितपात्रवत् । तीराभ्यर्णमथ प्राप्तमुपालक्षयदेष तत् ॥ १३०॥ कथमेतत्तदेवास्मद्यक्षस्य काष्ठमन्दिरम् । इति सम्यक् समीक्ष्येष, तदारुरोह वेगतः ॥ १३१ ॥
IRIT८॥ प्रविष्टोऽन्तश्च नैक्षिष्ट, ज्यायांसं भ्रातरं निजम् । न वालुकोत्करं किन्तु, द्वारोत्कीर्णाक्षरावलीम् ।। १३२॥
॥
८॥