________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता हरिषेणश्रीषेणकथा।
कथामेतामथाख्यातुमिदानीमस्मि कातरा । अन्तरुत्तिष्ठदातङ्कनष्टामृतकलानना ॥१॥ श्रीषेणः प्राह मा भैषीहि त्वमकुतोभया । यत्तवातङ्ककर्तारं, मत्खड्गः शिक्षयिष्यति ॥ १२॥ सावज्ञं प्राह सेदानीमेतस्मात्कुटिलाद्विलात् । दृष्टिविषो महासर्पो, निर्गन्ता यमखड्गवत् ॥ १३ ॥ यद्वस्तु सम्मुखं तस्य, सजीवं मानुषादिकम् । तदृष्टिरश्मिभिः स्पृष्टं, भस्मीभवति तत्क्षणात् ।। ६४ ॥ कुतोऽप्यासादितवरो, देवताभिन मार्यते । किन्त्वै तिमिदं मत्यैः, प्रेष्योऽयं यममन्दिरम् ॥१५॥ किश्चात्रैनमजानन्त्यो, वसन्त्यः केवलाः स्त्रियः । बह्वयो भस्मीकृताः करेणानेन विषचक्षुषा ।। ६६ ॥ ततो यातं युवा कापि, सापायादेवतौकसः। अहं च वसुधान्तःस्थं, यामि स्वं वेश्म भीतिभाक् ॥१७॥ श्रीषेणः पुनरूचे ता, मातरेकं वचः शृणु । एताः कथय कुत्रत्याः, सङ्गीतककृतः स्त्रियः ॥१८॥ सत्वरं प्राह सा वत्स !, सर्वास्ता राजकन्यकाः। दीपोत्सवे दीपोत्सवे, रात्रावायान्ति नन्विह ॥ 8 ॥ कृत्वा ता देवतायाश्च, स्नानपूजादिकं स्वयम् । सङ्गीतेनाराधयन्त्यो, जाग्रत्येतां निशामिह ॥ १०॥ श्रीषेणः प्राह किं तासां, देव्याराधनकारणम् । ऊचे वृद्धा प्रतिज्ञातमेताभिरिदमात्मना ॥ १०१ ॥ यो हि दृष्टिविषं सर्पमेनं हत्वा तदैव हि । देवीमूर्तिपुरःस्थेत्र, कुण्डे स्नास्यति तापिते ॥ १०२॥ स एव साहसावासो, नरोऽस्मान् परिणेष्यति । इत्याप्तयौवनाश्चापि, न वृण्वन्ति नरान्तरम् ॥ १.३॥ ततोऽस्मिन् पन्नगे सर्व, भस्मीकृत्य निवर्तिनि । तन्माहात्म्याहितातङ्का, तिरोभवति देव्यपि ॥ १०४ ॥
॥६६॥