________________
चन्द्रप्रमस्वामि
प्रथमः परिच्छेदः
चरित्रम्
अजापुत्रका थान्तर्गता हरिषेणधीणकथा।
तन्मूर्तेश्च पुरः कुर्वन् , सङ्गीतं मधुरध्वनि । अतिश्रीरूपलावण्यं, स्त्रीवृन्दं तावपश्यताम् ॥ ७७ अथायाता च नेदीयः स्त्रीवृन्दस्य प्रगायतः । विस्मृतापरकर्तव्यो, स्तम्भिताविव तस्थतुः॥७८॥ गायन्त्यां क्षणं नक्या, क्षणं वीणाकृतिक्षणम् । भ्रान्त्वा श्रान्तेव तद्दृष्टिर्निनिमेषत्वमाश्रयत ॥ ७९ ॥ आसन्नस्तम्भावष्टम्भाचलत्सर्वाङ्गधारिणौ । रेजाते तो कटाक्षः स्वैरेताभिः कीलिताविव ॥ ८॥ कर्णपालीविशद्गीतिपीयूषवृष्टिजाडयभाक । तन्मनोहतकुटीकोणे, निलीयास्थादचंतनम् ॥ १॥ तयोनिश्चेष्टयोरेवं, सुखमूर्छामिवेयुषोः। गीतग्रहिलतां द्रष्टुमिवाशु प्रोदगाद्रविः॥२॥ उदितश्च सहस्रांशुस्तिरोभूताश्च योषितः । गीतानुरणनभ्रान्त्या, तस्थतुस्तौ तथैव तु ॥३॥ अर्केणोत्थापनायव, गाढं स्पृष्टौ करैनिजैः। निद्रामिव समुज्झन्ती, रङ्गे चिक्षिपतुर्दशौ ॥ ८४॥ न यावत्पश्यतस्तासां, मध्ये ह्यकामपि स्त्रियम् । ततः सस्मरतुः स्वार्थ, जातजातिस्मृती इव ॥८५॥ विलोक्योदितमादित्यं, सम्भ्रान्तावभिदेवताम् । चलितौ पश्यतो द्वारं, पिहितं निजपुण्यवत् ॥ ८६ ।। अहहा !!! किमभूदेतद्गीतमोहितचेतसोः । दूरे राज्यश्रियो देव्या, न नौ दर्शनमप्यभूत् ॥ ८७॥ धिग् धिगू व्यसनिनावावा, कृत्वा कष्टमिहागतौ । न चाभूत फलनिष्पत्तिय॑सनं हि न सिद्धये ॥ ८८ ॥ सहस्तघर्षमित्युक्ते, पुरुषेणावरेण हि । वृद्धा काचित्समायासीद्वदन्ती यात यात रे ! ॥८६॥ नत्वैनां पुरुषोप्राक्षीत् , किं निर्वास्यावहे त्वया ?। साऽख्यत् सकम्पमत्रार्थे, वत्सास्ते महती कथा ॥8॥
॥
५॥