________________
कार्यचिन्तारूपा जाता । इच्छया स्वाभिलाषेण यावत्कथिका यावज्जी विकी तस्येति । विमर्शेऽहो । सत्येन दुष्करं कृतं यद् भातृस्नेहमुपेक्ष्य सद्भूतव्यवहारोऽवलम्बित इत्येवंरूपे सति मोचनं कृतं जातसन्तोषेण वाणिजकेनापि रिक्थस्य सर्वस्वरूपस्य ॥५२०।।५।। अथ तृतीयोदाहरणमाह ;
--
।। ५०३ ।। २४ दक्खिणमहरा गोट्टी एगो सडोति वच्चए कालो । तत्थनयाउ परिक्क थेरिगेहम्मि मुसणा य ॥५२१।१।। जो सड्डे बेरिपायवडण लंडणा मोरवित्तरसएण | सावगभागागहणं गोट्ठीपरिवज्जणाभावो ।। ५२२।।२।। थेरीए रायकहणं गोट्ठाहवणमगमो उ सङ्घस्स । एत्तिय विसेसकहणे आहवणमचिधगो नवरं ।। ५२३ ॥ ३॥ पुच्छण चिता गोट्ठी कइआ अज्जेव किमिति एमेव । चारियपसिणे खुद्धा सव्वे ण उ सावगा नवरं ।। ५२४ || ४ | रनो भावपरिक्षा विसेसपुच्छाए भूयसाहणया । निग्गहपूजा उ तहा दोहवि गुणदासभावेणं ।। ५२५ । । ५॥
इह दक्षिणमथुरायां काचीति सर्वत्र प्रख्यातायां काचिद् दुर्व्वलितगोष्ठी समभूत् । एकः श्राद्धः सदाचारः श्रावकपुत्रस्तस्यां समभूत् । इत्येवं व्रजति काल: । तत्र दक्षिणमथुरायामेवान्यदा तु कालान्तरे पुनः 'पइरिक्क' विजने सम्पन्न एकत्र स्थविरागृहे 'मुसणा य' त्ति सर्वस्वमोषणं तया कृतम् चः पूरणे ।। ५२१ || १ || नो नैव 'सङ्घ' ति श्रावकेण किञ्चित् कृतम् । ज्ञातं च स्थविरया, यथा-मदीयं गृहं दुर्ललितगोष्ठया मोषितुमारब्धम् ततः 'थेरिपायवडण' त्ति स्थविरया पादपतनव्याजेन मा मुष्णीत मदीयं गृहमिति भणन्त्या पादस्पर्श क्रियमाणे लाञ्छना चिह्नकरणं दुर्ललितगोष्ठीपादानां तालतललग्नेन मयूरपित्तरसकेन मयूरवसयेत्यर्थः । तत्र च स्थविरागृहद्रव्ये विभज्यमाने श्रावकभागाग्रहणं
।।५०३॥