________________
उपदेशपद स्थविरागृहमोषस्य न तेन भागो गृहीत इत्यर्थः । तथा गोष्ठीपरिवर्जनाभावः-तां गोष्ठीं परिवर्जयितुं परिणामस्तस्य महाग्रंथ |
समजायत, यथा-न सुन्दरपरिणामेयं गोष्ठी, ततो मोक्तुमुचितेति ॥५२२।।२।। स्थविरया च प्रभातकाले राजकथनमकारि । राज्ञा च गोठयाह्वानं दुर्ललितगोष्ठयाकारणं व्यधायि । अगमश्च नागमनं च श्राशस्य श्रावकपुत्रस्य सम
जायत राजकुले । पपृच्छे च राज्ञा किमेतावन्त एव भवन्त उतान्योऽपि कश्चिद् अस्ति? ततो विशेषकथने दुर्ललित॥५०४॥
गोष्ठया कृते आह्वान श्रावकसुतस्य संजातम् आगतश्चासावचिह्नको मयूरपित्तचिह्नरहितो नवरं केवलम् ॥५२३॥३॥ प्रच्छनमचिह्नितभावविषयं राजा कृतं, यथा-किनिमितं भवानचिह्नितः ? तस्य च चिन्ता समुत्पन्ना कि निमित्तं कथयामि नवेत्येवंरूपा । एवं च बद्धमौने तत्र राज्ञा भणितं-गोष्ठी कदेयं समाश्रिता त्वया ? श्रावकपुत्रः प्राह-अद्य व। राजा-किमिति-कस्मात् समाश्रिता? श्रावकपुत्रः प्राह-एवमेवानाभोगादेवेत्यर्थः । ततश्चोरिकाप्रश्ने-किमिति भवद्भिः स्थविरागृहे रात्री चौर्यमाचरितमित्येवंरूपे राज्ञा कृते क्षुभिताः क्षोभमागताः सर्वेऽपि दुर्ललितगोष्ठीवत्तिनस्ते, न पुनः | श्रावको नवरं केवलं क्षुभितोऽनपराधत्वादेव ॥५२४॥४॥ ततो राज्ञो भावपरिज्ञा क्षोभाक्षोभाभ्यां तत्परिणामविशेषनिश्चयो वृत्तः । विशेषपृच्छायां को भवतां मध्ये चोरोऽचोरो वेति भूयो राज्ञा कुतायां 'भूयसाहणय'त्ति यथाव- स्थितार्थनिवेदना तैः कृता ततो निग्रहपूजे चोराणां निग्रहः श्रावकसुतस्य पूजा प्रवृत्ता तथा स्वव्यवहरणोचिते, द्वयोरपि गुणदोषभावेन श्रावकसुतस्य गुणभावेन, इतरेषां तु दोषभावेन हेतुनेति ॥५२५।।५।। अथ चतुर्थोदाहरणम् ;कोसंबीए सडो सुदंसणो नाम सेट्टिपुत्तोति । देवीसंववहारे दसणओ तीए अणुरागो ।।५२६॥१॥
॥५०४॥