SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ व्रतपरिणामप्राधान्य मसत्योदा शाहरणच उपदेशपद वटपद्रके वटपद्रकाभिधाने स्थाने सत्यः सत्याभिधानः, खलुक्यालंकारे, वणिकपुत्रो वाणिजकनन्दनः श्रावको विख्यात महाग्रंथ इत्यनुव्रतादिधारकत्वेन प्रसिद्धः । अन्यदा भ्रातृसमं भ्रात्रा साद्धं पारसकूलं नाम द्वीपविशेषं गत्वा समागन्तुं लग्नः ॥५१६॥१।। आगच्छतोश्चेतयोर्यदभूत् तदाह-अन्यः प्रावहणिकैः समं 'पासण' त्ति दर्शनमभूत् तिमिङ्गिलस्य महामत्स्यविशेषस्य जलोपरिस्थितस्य सर्वेषां प्रावहणिकानाम् ततस्ते सर्वे प्रावहणिका: 'मत्स्यो महानेषः' इति भणन्ति भ्राता त्वेतस्य सत्यस्य द्वीप इति समभाणीत् ।।५१७॥२॥ सर्वस्वेन सर्वगृहसारेण द्यूतं पणो व्यवस्थापितः। प्रतिषेधः ॥५०॥ सत्येन कृतो-नैवं पणबंधो व्यवस्थापयितुं युक्तः । तथापि बलाद् हठवृत्या अस्य पणस्य करणं निवर्त्तनमिति । ततो महामत्स्यद्वीपयोः परीक्षार्थं निर्यामकेण प्रवणप्रवर्तकेन पुरुषेण पृष्ठप्रदेशे वैश्वानरप्रज्वालनं कृतम् । तदनु प्रतापितपृष्ठेन तेन मत्स्येन ब्रुडनं निमज्जनं जलमध्ये विहितम् । अथ कालेन तेषां कुलप्राप्तिः सम्पन्ना ।।५१८।३।। मार्गणा सर्वस्वलक्षणस्य पणस्य प्रवाहणिकस्तस्य कृता । विप्रतिपत्तिविहिता तेम सत्यभ्रात्रा। ततो राजकुले व्यवहारः प्रवृत्तः । साक्षिभाषणा-केऽत्र साक्षिण इति भाषितं राज्ञा । भाषितः स च प्रतिवादिना, यथा-अस्यैव भ्राता सत्याभिधान: साक्षी । ततः भ्राता भ्रातुर्मिलितो भवतीति । नासवेवंविधार्थसाक्षिभावेन व्यवहाँ युक्त इत्यस्मात् कारणाद् नृपपरीक्षा २ नृपेण परीक्षा कर्तुमारब्धा । कथमित्याह-पूजा सत्कारः श्रेष्ठिनि नगरप्रधानवणिग्विशेषे कृता । भणितश्चासौ पृच्छ सत्यं कोऽत्र सद्भावः । ज्ञातश्च श्रेष्ठिना सत्यात् परमार्थः । निवेदितश्च राज्ञः तेनापि ढौकितं सर्वस्वं प्रतिवादिने ॥५१९॥४॥ पूजा कृता सत्यस्य कीदृशीत्याह-महाश्रेष्ठिनि सर्वश्रेष्ठिवर्गप्रधानभावभाजि सति तस्मिन् योग्यतानगर ॥५०२॥
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy