________________
उपदेशपदः तस्य व्रतपरिणामस्य यद्यस्माद् भावतस्तत्त्ववृत्त्या भावः समुत्पादः । इदमुक्तं भवति-अव्रतपरिणामस्तत्त्वविषयादज्ञाना- | जिनधर्ममहााग्रंथः दश्रद्धानाच्च जीवानामस्वभावभूतः प्रवर्तते, इति नासौ धीरोदारगुरुक इति चालयितुमपि शक्यते । व्रतपरिणामस्त्वे- ज्ञातम्
तपरिणातद्विपरीत इति न चालयितुं शक्यः ॥५११।। एतदेव भावयति ;
मप्राधान्यजाणइ उप्पण्णरुई जइ ता दोसा नियत्तई सम्मं । इहरा अपवित्तीयवि अणियत्तो चेव भावेण ॥५१२॥ ॥५००
जानाति हेतुतः स्वरूपतः फलतश्च दोषं जीवहिंसादिरूपं, तत उत्पन्नरुचिः समुन्मीलितश्रद्धानः पुमान् मिथ्यात्वमोहोदयविगमाद् यदि चेत् ततो दोषाद् निवर्त्तते सम्यग् मनःशुद्धिपूर्वकम् । इतरथा ज्ञानश्रद्धानाभावे कुतोऽपि लाभादिकारणादप्रवृत्तावपि दोषेऽनिवृत्तश्चैवानुपरत एव भावेन परमार्थेन । यथा दाहकशक्तिव्याघाताभावे कुतोऽपि वैगुण्याददहन्नपि दहनस्तत्त्वतो दाहक एव, एवं ज्ञानश्रद्धानाभावे दोषनिवृत्तावपि जीवो दोषेष्वनिवृत्त एव दृश्यः दोषशक्तेः
कस्याश्चिदनुपघातादिति ।।५१२।। पुनरप्येतदेव समर्थयन्नाह ;IXI जाणंता वयभंगे दोसं तह चेव सद्दहतो य । एवं गुणं अभंगे कह धीरो अण्णहा कुणइ ? ॥५१३॥
जानन्नवबुध्यमानो व्रतमले प्रतिपन्नव्रतविनाशें दोषं नरकपातादिलक्षणं, चैवेति समुच्चये, श्रद्दधानश्च श्रद्दधान एव; र | एवं जानानः श्रद्दधानश्च गुणं स्वर्गादिलाभरूपम् अभङ्गे व्रतस्य कथं धीरः सात्त्विकोऽन्यथा करुते? प्रतिपद्य व्रतं INT 1 तस्य भङ्गं न कुरुत इति भावः ॥५१३।। कुतः । यतःस तुच्छ कज्जं भंगे गरुयमभंगम्मि णियमओ चेव । परमगुरुणो य वयणं इमंति मइमं ण लंघेइ ॥५१४ ।