________________
तदर्थेदृष्टान्तपरिभावनम्
उपदेशपदा लावेससासाणा मोयण रुटूण ताडिओ धणियं । एवं पुणोवि नवरं कहणा एएसु पडिसेहो ।।५०७।२।। महाग्रंथ ने
दासो मे आणत्ति कुण सच्चमिणं करेमि उचियंति । मज्झतु एत्थ दोसो अतत्तमिणमग्गिनाएण ॥५०८॥३॥
पिट्टण बोले रायायन्नण परिओसविम्हयाहवणं । भावपरिक्खण मायाकोवो वावत्ति हत्थाणा ॥५०९।।४।। ॥४९८॥
लोलण पुच्छा भावा पडिसेहण मोयणा सम्मं । सक्कारविउलभोगा खग्गधरनिरूवणा चेव ॥५१०।।५।।
भरुकच्छे भरुकच्छनाम्नि पुरे दक्षिणापथमुखमण्डनभूते जिनधर्मों 'नाम श्रावकपुत्रोणुव्रतधरः समासीदिति । स चान्यदा म्लेच्छस्तत्पत्तनभङ्गेऽपहृतः सन् परकूले कुंकणादौ विक्रीतः सूपहस्ते सत्कूलवासिनो नरपतेर्यः सम्बन्धी सूपकारस्तस्य हस्ते इति ॥५०६॥१॥ तस्य च तेन 'लावेसूसासाणा'इति लावकेषु लावकनामसु पक्षिषु विषये उछ्वासायाज्ञा दत्ता, यथैतान पञ्जरगतान् लावकान् त्वमुच्छ्वासय । तेन चात्यन्तदयापरायणतया उच्छ्वासा मोचन मितिपरिकल्प्य च 'मोयण'त्ति मोचनं कृतं रुष्टेन च तेन सूपकारेण ताडितः स धणिकमत्यर्थम् । एवं पुनरपिद्वितीयवेलायामाज्ञप्तेन नवरं केवलं कथना निवेदना कृता तेन, यथैतेषु लावकेषु वधस्य मे प्रतिषेधः प्रत्याख्यानं वर्तत इति ॥५०७।।२।। पुनस्तेन सूपेनोक्तं भणितं, यथा-दासो मूल्यक्रीतत्वात् त्वं मे, आज्ञापितं कुरु । भणितं जिनधर्मेण-सत्यं यथाऽहं तव दास: करोम्युचितामाज्ञां, न तु लावकोच्छ्वासरूपामत्यन्तसावद्यरूपामिति । प्राग्वद् भणितं च सूपकारेण-मम तु ममैवात्र लावकवधे दोषोऽपराधः । जिनधर्मः प्राह-अतत्त्वमिदमपरमार्थोऽयं, यदन्येन हन्यमानेषु प्राणिषु अन्यस्य वधापराधः सम्पद्यते न तु घातकस्याग्निज्ञातेन । न ह्यग्निना स्वसम्बद्धवस्तुव्यतिरेकेणान्यत्र वस्तुनि दाहः क्रियते
॥४९८॥