________________
॥४९७
किञ्च;-- गुणठाणगपरिणामे संते उवएसमंतरेणावि । नो तव्वाघायपरो नियमेणं होति जीवोत्ति ॥५०३।।
गुणस्थानकपरिणामे सम्यग्दर्शनादिगुणविशेषपरिणतिलक्षणे सति, उपदेशं तीर्थकरगणधरादिप्रज्ञापनारूपमन्तरेणापि नो नैव तद्व्याघातपरः स्वयमेवस्वगतगुणस्थानकपरिणतिव्याहतिप्रधानो नियमेन भवति जीव इति, प्रस्तुतगुणस्थानकात्यन्तराधनावशेन तद्बाधकसंक्लेशानां हानिभावादिति ॥५०३।। एत्थवि आहरणाई णेयाइंऽणुव्वएवि अहिगिच्च । इटुत्थसाहगाई इमाई समयम्मि सिद्धाइं ॥५०४॥
अत्र च पूर्वोक्तेऽर्थे आहरणानि दृष्टान्तलक्षणानि विज्ञेयानि बोध्यानि, अणुव्रतानि स्थूलप्राणातिपातविरमणादीनि PO रात्रिभोजनविरति च, न केवलं प्रागुक्तेष्वर्थेष्वित्यपिशब्दार्थः, अधिकृत्याश्रित्य । कीदृशानीत्याह-इष्टार्थसाधकानि-वक्तु
मिष्टार्थसंसिद्धिकारणानि। इमानि वक्ष्यमाणानि समये जिनप्रवचने सिद्धानि प्रतिष्ठितानि ॥५०४॥ तान्येवाह;जिणधम्मो सच्चोविय गोट्टीसड्डा सुदंसणो मइमं । तह चेव धम्मणंदो आरोग्गदिओ य कयपुण्णो ॥५०५॥
जिनधर्मः श्रावकसुतः प्रथमः । द्वितीयः सत्यः सत्यनामा । अपिचेति समुच्चये । तृतीयो गोष्ठीश्राद्धः । चतुर्थः सुदर्शनो नाम मतिमान प्रशस्तप्रज्ञः । तथा चैव पञ्चमो धर्मनन्दः । षष्ठश्च दृष्टान्त आरोग्यद्विजकश्च कृतपुण्य इति ॥५०५॥ 'यथोद्देशं निर्देशः' इति न्यायाजिनधर्मदृष्टान्तमेव भावयन् गाथापञ्चकमाह;भरुयच्छे जिणधम्मो सावगपुत्तो अणुव्वयधरो त्ति । अवहरिओ परकूले विक्कीओ सूवहत्थम्मि ॥५०६॥१॥
॥४९७।।