SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ - Gril उपदेशपदः स्वगुणस्थानसमुचितक्रियाणामिति ॥५०॥ अथात्रैव परमतमाशंक्य परिहरन्नाह; प्रकृतोपदेरहााग्रंथः जइ एवं किं भणिया निच्च सुत्तत्थपोरिसीए उ । तद्वाणंतरविसया तत्तोत्ति न तेण दोसोऽयं ॥५०॥ | शसाफ सल्यस्थानयदि चेदेवमेतत् 'सफलो एसुवएसो' इत्यादि प्रगुक्त वर्त्तते, ततः किं कस्माद् गदिते निरूपिते नित्यं प्रतिदिवसं Mo1 निरू० सूत्रार्थपौरुष्यौ ? तुः पादपूरणार्थः । इह द्विविधाः श्रुतग्राहिणः कठोरप्रज्ञास्तदितरे च । तत्र ये कठोरप्रज्ञास्ते प्रथमपौ४९६॥ रुष्यां यत् सूत्रमधीयते, द्वितीयायां 'सुत्तत्थो खलु पढमों' इत्यादिनानुयोगक्रमेण तस्यार्थमाकर्णयन्ति । ये तु न तथारूपास्ते पौरुषीद्वयेऽपि सूत्रमेव पठन्ति, पश्चात् कालान्तरेण सम्पन्न प्रज्ञाप्रकर्षाः पौरुषीद्वयेऽप्यधीतसूत्रार्थग्रहणाय यत्न माद्रियन्त इति । अत्र समाधि.--तयोः सूत्रार्थयोः स्थानान्तरमपूर्वापूर्वरूप उत्तरोत्तरविशेषः स विषयो ययोस्ते तथा* रूपे सूत्रार्थपौरुष्यो, इति न नैव तेन कारणेन दोषोऽयमित्थं सूत्रार्थपौरुष्युपदेशलक्षणः ।।५०१॥ एतदेव भावयति;-- अप्पुव्वणाणगहणे निच्चब्भासेण केवलुप्पत्ती । भणिया सुयम्मि तम्हा एवं चिय एयमवसेयं ॥५०२॥ अपूर्वज्ञानग्रहणेऽपूर्वस्य ज्ञानस्य श्रुतरूपस्य सूत्रार्थभेदभिन्नस्य ग्रहणे क्रियमाणे; कथमित्याह-नित्याभ्यासेन प्रतिदिवसमभ्यसनेन, केवलोत्पत्तिः-निखिलशेयावलोकनकुशलज्ञानलाभरूपा भणिता श्रुते 'अप्पुव्वनाणगहणे' इत्यादिलक्षणे । तस्मादेवमेवैतत् सूत्रार्थपौरुष्युपदेशनमवसेयम् । अयमभिप्रायः-नैतद् गुणस्थानारंभिणां, नापि ततः परिच्यवमानानां, किन्तु प्रारब्धस्वगुणस्थानकोचितकृत्यानां केवलज्ञानलाभावन्ध्यबीजयोः सूत्रार्थमेव तत्पौरुष्युपदेशः कृतः ।।५०२।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy