________________
-
Gril
उपदेशपदः स्वगुणस्थानसमुचितक्रियाणामिति ॥५०॥ अथात्रैव परमतमाशंक्य परिहरन्नाह;
प्रकृतोपदेरहााग्रंथः जइ एवं किं भणिया निच्च सुत्तत्थपोरिसीए उ । तद्वाणंतरविसया तत्तोत्ति न तेण दोसोऽयं ॥५०॥
| शसाफ
सल्यस्थानयदि चेदेवमेतत् 'सफलो एसुवएसो' इत्यादि प्रगुक्त वर्त्तते, ततः किं कस्माद् गदिते निरूपिते नित्यं प्रतिदिवसं Mo1 निरू०
सूत्रार्थपौरुष्यौ ? तुः पादपूरणार्थः । इह द्विविधाः श्रुतग्राहिणः कठोरप्रज्ञास्तदितरे च । तत्र ये कठोरप्रज्ञास्ते प्रथमपौ४९६॥
रुष्यां यत् सूत्रमधीयते, द्वितीयायां 'सुत्तत्थो खलु पढमों' इत्यादिनानुयोगक्रमेण तस्यार्थमाकर्णयन्ति । ये तु न तथारूपास्ते पौरुषीद्वयेऽपि सूत्रमेव पठन्ति, पश्चात् कालान्तरेण सम्पन्न प्रज्ञाप्रकर्षाः पौरुषीद्वयेऽप्यधीतसूत्रार्थग्रहणाय यत्न
माद्रियन्त इति । अत्र समाधि.--तयोः सूत्रार्थयोः स्थानान्तरमपूर्वापूर्वरूप उत्तरोत्तरविशेषः स विषयो ययोस्ते तथा* रूपे सूत्रार्थपौरुष्यो, इति न नैव तेन कारणेन दोषोऽयमित्थं सूत्रार्थपौरुष्युपदेशलक्षणः ।।५०१॥ एतदेव भावयति;-- अप्पुव्वणाणगहणे निच्चब्भासेण केवलुप्पत्ती । भणिया सुयम्मि तम्हा एवं चिय एयमवसेयं ॥५०२॥
अपूर्वज्ञानग्रहणेऽपूर्वस्य ज्ञानस्य श्रुतरूपस्य सूत्रार्थभेदभिन्नस्य ग्रहणे क्रियमाणे; कथमित्याह-नित्याभ्यासेन प्रतिदिवसमभ्यसनेन, केवलोत्पत्तिः-निखिलशेयावलोकनकुशलज्ञानलाभरूपा भणिता श्रुते 'अप्पुव्वनाणगहणे' इत्यादिलक्षणे । तस्मादेवमेवैतत् सूत्रार्थपौरुष्युपदेशनमवसेयम् । अयमभिप्रायः-नैतद् गुणस्थानारंभिणां, नापि ततः परिच्यवमानानां, किन्तु प्रारब्धस्वगुणस्थानकोचितकृत्यानां केवलज्ञानलाभावन्ध्यबीजयोः सूत्रार्थमेव तत्पौरुष्युपदेशः कृतः ।।५०२।।