________________
।। ४९५ ।।
एवं क्षपकाद्य ुदाहरणानुसारेणेह प्राणिवर्गे दुःखरूपोऽमर्षस्वभावो दुःखफलश्चैव शारीरमानसादिव्यसनपरंपरारूपोतरोत्तरकार्यः संक्लेशः कषायकालुष्यलक्षणः इत्यस्मात् कारणादाज्ञासम्यक् प्रयेोगेणावितथजिनादेशव्यापारणेन वर्जयितव्यः सदाप्येष संक्लेश इति ।। ४९८ ।। येषु जीवेष्वेष उपदेशो दीरामानः सफलः स्यात्, तान् सप्रतिपक्षान् आह; - सफलो एसुवएसो. गुणठाणारंभगाण भव्वाणं । परिवडमा णाण तहा पायं न उ तट्ठियाणंपि ।। ४९९ ।।
सफलः सप्रयोजन एष संक्लेशपरिहाररूप उपदेशो गुणस्थानारंभकाणां सम्यगृदृष्ट्यादिगुणस्थानकस्यात्मनि प्रवर्तकानां भव्यानां, विवक्षितगुणस्थानकं प्रति सम्पन्नाविकलयोग्यभावानां परिपततां जीवानां तथाविधक्लिष्टकर्मोदयाद् विवक्षितं गुणस्थानकसौधशिखरादधः प्रारब्धपातानां, तथेति समुच्चये, प्रायेो बाहुल्येन । एवमुक्तं भवति ये निकाचितकर्मोदयात् प्रारब्धपातास्तेषामफल एव ये तु सोपक्रमकर्माणिस्तेषु स्यादेव फलवानुपदेश इति । व्यवच्छेद्यमाह-न तु न पुनस्तत्स्थितानामपि सर्वात्मना समधिष्ठितगुणस्थानकानामपीति ।। ४९९ ।। अमुमेवोपदेशमाश्रित्याह; - सहकारिकारणं खलु एसो दंडोव्व चक्कुभमणस्स । तम्मि तह संपयट्टे निरत्थगो सा जह तहेसो ||५०० ।।
सहकारिकारणं, खलुरेवकारार्थः, एष उपदेशः स्वयोग्यतयैव गुणस्थानकारम्भकाणां प्रतिपाते च स्थैर्ययोग्यानां जीवानाम् । दृष्टान्तमाह- दण्डवत् कुलालदण्ड इव चक्रभ्रमणस्या । तथा हि-अनारब्धभ्रमणं चक्रं दण्डेन भ्राभ्यते, प्रारब्धभ्रमणमपि मन्दीभूते तत्र पुनस्तेन भ्रमणतीव्रतां नीयते; एवमत्रापि भावना कार्या । तस्मिन् भ्रमणे तथा सर्वभावमन्दतापरिहारवता प्रकारेण सम्प्रवृत्ते निरर्थको भ्रमणकार्यविकलः स दण्डो यथा, तथैष उपदेशः प्रारब्ध
KOXXX
।।४९५।।