________________
।। ४९१ ।।
मान्यात्, द्वितीयं पुनरस्य श्रमणसिंहस्योपरि स्थानात ॥४८७॥२॥
एवं च तयोस्तथावस्थितयोर्भववृद्धिः, तत्परित्तीकरणं सम्पन्नम्, अग्निशिखस्य भववृद्धिररुणस्य तु भवतुच्छभावकरणं समजायतेत्यर्थः । वर्षान्ते गमनं वर्षाकालपर्यन्तेऽन्यत्र विहरणं ताभ्यामक्रियत । अम्यदा च कस्यचित् केवलिनः समवसरणे प्रवृत्ते 'बासे' इति वर्षाकालावस्थानविषये लोकेन निर्जरापृच्छा कर्मसाटपरिभ्रंशरूपा कृता, यथा-भगवन् ! अनयास्तपस्विनोरत्रकृतवर्षाकालावस्थानयोः कस्य कियती निर्जरा जातेति । तेन च केवलिना कथनं पूर्वोक्तस्यार्थस्य भववृद्धि - तत्परित्तीकरणलक्षणस्याकारीति ॥ ४८८ ।। समाप्तं च क्षपकज्ञातम् ||१||
साम्प्रतं चागमिकज्ञातमाह - तत्रागमिकः कश्चिदाचार्य: स्वभावत एव मेधादिगुणपात्रं सुगुरुपदप्रासदाभ्यस्तसमस्तागमः स्वगच्छनायकत्वमनुभवन्, परमृद्धिरससातगौरवपारवश्यमुपगतो वर्त्तते स्म । 'किरिय णाणं खुड्डग - 'ति तस्य च सूरे: सम्बन्धिनि गच्छे क्षुल्लके । लघुवयसि कस्मिश्चित् साधौ क्रिया प्रत्युपेक्षणा - प्रमार्जनादिरूपा सामाचारी सकलमनस्विमानवमानससन्तोषसम्पादिका ज्ञानं च व्याकरणतर्कगणितज्योतिषस्वसमयपरसमयशास्त्रपरिज्ञानलक्षणं तत्कालवतिविद्वज्जन शिरोमणिभावसूचक तथाविधकर्महासाद् युगपदेव समारूढे अभूताम् । ततो लोकस्यासाधारणतद्गुणाकृष्टचेतसो गुरुपूजोपेक्षणेन तत्र 'बहुमाण'त्ति बहुमानो वन्दनपूजनगुणग्रहणवस्त्रपात्र प्रतिलाभनादिरूपो भूयान् विजृम्भितः । पठ्यते चात्र – “ शुद्धाः प्रसिद्धिमायांत लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ॥१॥" इत्येवं च स्थिते 'तप्पदूषणय त्ति तस्य गुरोरसमशिष्यमत्सरक्षारविच्छुरितस्य प्रदूषणा प्रकृष्टदूषणारूपा प्रवृत्ता शिष्यं
।। ४९१ ।।