SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उपदेशपदः - महाग्रंथ : धर्माभिधानगुरुपार्श्वगतयोर्बोधिः धर्मप्राप्तिरजायत । ततश्चैकस्य निष्क्रमणं प्रव्रज्या प्रतिपत्तिरूपं संवृत्तं परमक्रिया कुतोऽपि प्रमादात् प्रत्युपेक्षणा - प्रमार्जनादिक्रियाहानिरूपा संवृत्ता । मनोरथस्तु मनोरथ एवान्यस्य द्वितीयस्य शुद्धे निष्क्रमणे प्रवृत्तः, न पुनः कथञ्चित् तज्जातमिति । ४८१ ॥ कालेन कियतापि गतेन मिलनमेकत्रावस्थानलक्षणं तयोर्जातम् । सुखासीनयोश्च समुचितस्ववृत्तान्तकथनश्रवणप्रवृ।। ४८८ ।। तयोरशनिघालोऽकस्मादेव नभस्तलाद् विद्यन्निपाताद् विनाशो जातः । तदनूपपातस्तयोरजनि । क्वेत्याह-व्यन्तरविमाने प्रथमस्य व्यन्तरे द्वितीयस्यतु विमाने सौधर्माद्यमरावासलक्षणे इति । अन्यदा केवलिनः कस्यचिदागमे पृच्छा लोकेन कृता, यथा-तयोः कः कुत्रोत्पन्नः ? कथनं यथा वृत्तान्तस्य तेन कृतम् । ततो लोकस्य भावे शुद्धधर्म्ममनोरथलक्षणे बहुमानोऽजनि न स्वशुद्धानुष्ठाने इति ||४८२ ।। अथप्रकृतयोजनामाह ; -- एत्थवि मणोरहोचिय अभिग्गहो सुद्धणिक्खमणगम्मि । बहुमाणओ वि अविराहणाए एत्थं फलमुदारं ॥ ४८३॥ अत्रापि न केवलं प्राच्ये जीर्णश्रेष्ठिदृष्टान्ते मनोरथ एवाभिग्रहः शुद्ध निष्क्रमणके शुद्धायामेव प्रव्रज्यायामित्यर्थः । ततो बहुमानतोsपि पुरस्कारपरिणामादप्यविराधनायां प्रतिपन्नस्य कस्यचिद् अभिग्रहस्याभञ्जनलक्षणायां सत्यामत्र शुद्ध निष्क्रबहुमाने च सति फलमुदारमविराधितदेवभवलक्षणं सम्पन्नमिति ॥। ४८३ । । एवं स्थिते सति यत्कर्त्तव्यं तदुपदिशन्नाह ; -- अबिराहणाए सुद्धे धम्मट्ठाणम्मि बुहजणेण तओ । जत्तो खलु कायव्वो ण अण्णहा संकिलिटुम्मि ||४८४ | अविराधनया तिलतुषत्रिभागमात्रमपि भावतः प्रतिपन्नाभ्रंशरूपयोपलक्षिते शुद्ध े निर्मलीमसे धर्मस्थाने चैत्यवन्दनादी अभिग्रहेवणिकसुतौउदा० ।।४८८।।
SR No.600269
Book TitleUpdeshpad Mahagranth Satik Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages448
LanguageSanskrit
ClassificationManuscript
File Size8 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy