________________
उपदेशपदः - महाग्रंथ :
धर्माभिधानगुरुपार्श्वगतयोर्बोधिः धर्मप्राप्तिरजायत । ततश्चैकस्य निष्क्रमणं प्रव्रज्या प्रतिपत्तिरूपं संवृत्तं परमक्रिया कुतोऽपि प्रमादात् प्रत्युपेक्षणा - प्रमार्जनादिक्रियाहानिरूपा संवृत्ता । मनोरथस्तु मनोरथ एवान्यस्य द्वितीयस्य शुद्धे निष्क्रमणे प्रवृत्तः, न पुनः कथञ्चित् तज्जातमिति । ४८१ ॥
कालेन कियतापि गतेन मिलनमेकत्रावस्थानलक्षणं तयोर्जातम् । सुखासीनयोश्च समुचितस्ववृत्तान्तकथनश्रवणप्रवृ।। ४८८ ।। तयोरशनिघालोऽकस्मादेव नभस्तलाद् विद्यन्निपाताद् विनाशो जातः । तदनूपपातस्तयोरजनि । क्वेत्याह-व्यन्तरविमाने प्रथमस्य व्यन्तरे द्वितीयस्यतु विमाने सौधर्माद्यमरावासलक्षणे इति । अन्यदा केवलिनः कस्यचिदागमे पृच्छा लोकेन कृता, यथा-तयोः कः कुत्रोत्पन्नः ? कथनं यथा वृत्तान्तस्य तेन कृतम् । ततो लोकस्य भावे शुद्धधर्म्ममनोरथलक्षणे बहुमानोऽजनि न स्वशुद्धानुष्ठाने इति ||४८२ ।। अथप्रकृतयोजनामाह ; --
एत्थवि मणोरहोचिय अभिग्गहो सुद्धणिक्खमणगम्मि । बहुमाणओ वि अविराहणाए एत्थं फलमुदारं ॥ ४८३॥
अत्रापि न केवलं प्राच्ये जीर्णश्रेष्ठिदृष्टान्ते मनोरथ एवाभिग्रहः शुद्ध निष्क्रमणके शुद्धायामेव प्रव्रज्यायामित्यर्थः । ततो बहुमानतोsपि पुरस्कारपरिणामादप्यविराधनायां प्रतिपन्नस्य कस्यचिद् अभिग्रहस्याभञ्जनलक्षणायां सत्यामत्र शुद्ध निष्क्रबहुमाने च सति फलमुदारमविराधितदेवभवलक्षणं सम्पन्नमिति ॥। ४८३ । । एवं स्थिते सति यत्कर्त्तव्यं तदुपदिशन्नाह ; -- अबिराहणाए सुद्धे धम्मट्ठाणम्मि बुहजणेण तओ । जत्तो खलु कायव्वो ण अण्णहा संकिलिटुम्मि ||४८४ |
अविराधनया तिलतुषत्रिभागमात्रमपि भावतः प्रतिपन्नाभ्रंशरूपयोपलक्षिते शुद्ध े निर्मलीमसे धर्मस्थाने चैत्यवन्दनादी
अभिग्रहेवणिकसुतौउदा०
।।४८८।।