________________
॥४८५॥
सा पुण महाणभावा तहवि य पवणाइरूव मो भणिया । विवरीएसा समओदिया य तह बंधवुड्डिकरा ॥४७५।। ।
सा पुनराज्ञा महानुभावा पवनमपेक्ष्य प्रौढसामर्थ्याऽशेषदाहका, दाह्यकर्मकचवरभस्मभावसम्पादनात्, तथापि च लोकप्रतीतशेषोपमानाभावादिह तावत् पवनरूपा । अन्यत्र तु "आणा हि मोहविसपरममंतो, जलं रागाइजलणस्स, कम्मवाहिविमिच्छासत्यं, कप्पपायवो सिवफलस्त" इत्यादिसूत्रेषु परममंत्रादिरूपा भणिता । 'मो' पूर्ववत् । तथा विपरीता द्रव्यक्षेत्राद्यनौचित्यसेवनेन विपर्यस्ता एषा आज्ञा, किं विशिष्टापि सतीत्याह-समयोदितापि सामान्यतः सिद्धान्त- 5 निरपितापि, तथेति समुच्चये, बन्धवृद्धि करी कर्मोपचयकारिणी ॥४७५।।
उपसंहर्तुमाह ;आलोचियव्वमेयं सम्म सुद्धाए जोगिबुद्धीए । इयरीए उ ण गम्मइ एवं व सबंधसण्णाए ॥४७६।।
आलोचनीयं मीमांसनीयमेतद् यथेहेयमाज्ञा सम्यक् प्रयुक्ता भावाग्नेः पवनतुल्या, विपरीता तु बन्धवृद्धिकरी, सम्यक् 'शुद्धया योगिबुद्धया सज्ञानगुणपात्रजनयोग्यप्रज्ञया, इतरया त्वयागिबुद्धया न गम्यते न बुद्धयते । दृष्टान्तमाहरूपवद् नीलपीतादिलक्षणं रूपमिव सदान्धसंज्ञया जात्यन्धविहितहस्तस्पर्शादिलक्षणबुद्द्या ॥४७६॥
अथ भावतोऽन्धानम्धविभागं दर्शयति ;-- जच्चंघो इह णेओ अभिण्णगंठी तहंधलयतुल्लो । मिच्छद्दिट्ठी सज्जक्खओ य सइ सम्मदिट्ठी ओ ॥४७७।।
जात्यन्धो जन्मकालप्रभृत्येव नयनव्यापारविकल इह सद्भूतभावरूपोपलब्धौ ज्ञेयोऽभिन्नग्रन्थिः कदाचनाप्यव्यावृत्त
॥४८५॥